पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५४ शब्दापशब्दविवेके


९१. अवकरस्यावस्करस्य च विशेषं चेद्वेत्थ, शब्दविदसि नूनम् । ९२. विकर्तन१ कुलालङ्काराणां प्रथितप्रख्याणां भुवनविजित्वराणां रामादीनां वंश्या वयम् । ९३. न वयं परिस्थितेर्यथेष्टमीश्महे, तद्वशंगा एव वयं बहुश इति वृद्धाः । ९४. या तत्र नौ सम्भाषाऽभून्न तस्या: सम्प्रत्युपतिष्ठति विषयः स्मृत्तौ । ९५. भाषा हि व्यवहारस्य एकतमं साधनम् । ९६. संस्कृतस्याध्ययने लेखनेऽभ्यसने चानल्पं प्रयोजनमिति प्रायेण प्रतिपद्यन्ते लौकिकाः । ९७. स्वार्थानुसन्धिपरो लोक आकाशपातालमेकी करोति । ९१. संकरोऽवकरः । ऋदोरप् । वर्चस्केऽवस्कर इति पाणिनीयेऽवस्कर इत्यत्र सुट् निपातितः । प्रत्ययस्त्वबेव । उच्चारावस्करौ शमलं शकृत् । पुरीषं गूथं वर्चस्कमित्यमरः । ९२. चक्षिङः ख्याञ् इति क्शादिरयमादेशः । ख्शञ: शस्य यो वेत्युक्तम् । तच्चासिद्धकाण्डे द्रष्टव्यम् । तेन यत्वस्यासिद्धत्वेन शकरव्यवधानान्न णत्वम् इति प्रथितप्रख्यानामित्येव साधु । ९३. परिष्ठितेरित्येव साधु । उपसर्गात्सुनोतिसुवतीत्यादिना मूर्धन्या- देशो दुर्वारः । ९४. अकर्मकाच्चेत्युपपूर्वात्तिष्ठतेरात्मनेपदं विधीयते, तस्मात् परस्मै- पदं दुष्टम् । उपतिष्ठते उपस्थितो भवतीत्यर्थः । . ९५. एकतमत्साधनमिति वक्तव्यम् । नपुंसके स्वमोरद्डादेशस्य दुर्वारत्वात् । अन्यतमम् इति वा प्रयोज्यम् । ९६. अध्ययनेन लेखनेनाभ्यसनेन चानल्पं प्रयोजनमिति च वक्तव्यम् । तृतीयाप्रयोग एव प्रायिकः । गीतासु तु यावानर्थ उदपाने सर्वतः सम्प्लुतोदके इत्यत्र सप्तम्यपि दृश्यते । ६७. आकाशपाताले एकी करोतीति तु वक्तव्यम् । समाहारस्त्वेकोऽर्थः, तत्राभूततद्भावविषयस्य च्वेरनवसरः । अनेकं ह्येकं क्रियते । १. विकर्तनः सूर्य: ।