प्रकीर्णकम् ३५३
८१. ऋचया यदुक्तपूर्वं तदेव साम्नोच्यते ।
८२. न पठेद्यावनीं भाषां प्राणै: कण्ठगतैरपि ।
८३. अप्यन्तरायाण्यार्य ?
८४. विराडादिशब्दानां सन्ति मुख्यार्थाः सन्ति च गौणाः ।
८५. यदमात्याः कर्तव्यं निर्दिशन्ति तत्रौमिति ब्रूमः ।
८६. दुर्लभां मानुषीं तनुमवधार्य दुष्कृतं करोषि, हा हतोऽसि ।
८७. भीतो बालः क्व मेऽम्बेति पृच्छत्यन्तिकादतिक्रामन्तमागन्तुम् ।
८८. दृष्टिपूतं न्यसेत्पादम् । (मनु० ६।४६)
८९. बहुव्रीहिरिवान्यपदार्थप्रधानैरर्थवादैर्नार्थ: ।
९०. जीवानां व्यामोहयितरि परमेश्वरे 'शैताने' च को विशेषः ?
८१. ऋचेति वक्तव्यम् । प्रापं चैव हलन्तानामित्यापि 'ऋचा' इति
सिध्यति नाम, प्रयोगस्त्वस्य न दृश्यते लोकवेदयोः ।
८२. प्राणैः कण्ठगतैरित्यत्र इत्थम्भूतलक्षणे तृतीया वेदितव्या । कण्ठ-
गतैः प्राणरुपलक्षित इत्यर्थः ।
८३. आनि लोट् इत्युपसर्गात्परस्य लोट्-सम्बन्धिन आनेर्नस्य गत्वम् ।
अन्तःशब्दस्याङ् किविधिणत्वेषूपसर्गत्वं वाच्यम् इत्यन्तर् इत्युप-
सर्गः । अपिः प्रश्ने ।
८४. विराडादिशब्दानामित्येव साधु । वश्चभ्रश्जेत्यादिना षत्त्वे जश्त्वे
च रूपसिद्धेः ।
८५. तत्रोमिति ब्रूमः । श्रोमाङोश्चेति पररूपमेकादेशः । ओमित्यङ्गी-
कारेऽव्ययम् ।
८६. अवधारणं निश्चयनं भवति । तेनावमपास्य विमुपसृज्य विधा-
र्येति वक्तव्यम् ।
८७. दूरान्तिकार्थेभ्यो द्वितीया चेति चकारात् पञ्चमी ।
८८. न्यस्येदिति तु वक्तव्यम् । असु क्षेपण इति दिवादिषु पठितम् ।
गणकार्यमनित्यमित्येवं समादधति स्थितस्य गतिं चिन्तयन्तः ।
८९. बहुव्रीहिणेवान्यपदार्थप्रधानैरित्यादिरुपन्यासोऽदोषः। अत्रोपमा-
नोपमेययोर्वचनभेद: सचेतसासुद्वेगकरो नेत्यदोषाय ।
१०. व्यामोहयितुः परमेश्वरस्य शैतानस्य चेति वक्तव्यम् । भेदे षष्ठी-
व्यवहार एवं प्रतिष्ठितः ।