३६६ शब्दापशब्दविवेके
१८. उत्तिष्ठते वासुकिनापि दष्टः ।
१८२. गुरुभिः शिष्या आत्मनिर्भरतामनुशिष्याः ।
१८३ बह्वपानि तडागानि सारसाः समुपासते ।
१८४. ततः समा मासो दिवा रात्रिरिति कालभेदोध्यजायत ।
१८५. गरलभरयाऽनया नीत्या मिथो भेदिताः प्रजा नात्मश्रेयोऽविदुः ।
१८६. क्षीरौदनं गन्धयुतं विधाय स आदयत् किञ्चन तत् तनूजम् ।
१८७. अनादे: कालान्मनूष्यस्येयमिच्छाऽभूद्यत्स पक्षिगण इवाकाश
उड्डीयेत ।
१८८. अद्यत्वे शङ्काक्रान्तं जगत् । सबलानि दुर्बलानि वा राष्ट्राणि
स्वानि निरायतिकानि१ मन्यन्ते ।
१८१. उदो नूर्ध्वकर्मणि, उद ईहायामिति चेष्टायां यत्नेर्थे आत्मनेपदं
न तूत्थाने । तेनोत्तिष्ठतीत्येव साधु ।
१८२. आत्मावलम्बतामनुशिष्या इति वक्तव्यम् । निर्भरो भरः । अति-
शय इति यावत् ।
१८३. बह्व्य आपोऽत्रेति बह्वपानि । ऋक्पूरब्धू:पथामानक्ष इत्यकार:
समासान्त: ।
१८४. दिवेत्यधिकरणवृत्ति । प्रातिपदिकार्थमात्र दिवस इति वक्तव्यम् ।
एकत्वेप्युत्तरत्रयमिति समेत्येकवचनं साधु ।
१८५. गरलस्य भरो यत्रेति व्यधिकरणबहुव्रीहिरास्थेयो भवति । साऽ-
गतिकस्य गतिः । तेन गरलभूतयेति वाच्यम् ।
१८६. आदिखााद्योर्ने ति णिच्यणि कर्तुः कर्मत्वं न । तेन तनूजेनेति
अनुक्ते कर्तरि तृतीयया वाच्यम् ।
१८७. इच्छाऽभूद्यदहं पक्षिगण इवाकाश उड्डीयेति । परेणोदीरितोर्थः
परकीयरेव पदैरविकलं ज्ञाप्य इति संस्कृत सरणि: । वक्ता चात्मानं
तच्छब्देन परोक्षवत्तिना न जातु ब्रूयात् । आत्मस्थामिच्छामा-
चिख्यासन्नात्मानमस्मच्छब्देनाऽभिलपेत् । सर्वस्यात्मा संनिहितो
यतः ।
१८८. स्वशब्द आत्मवचन एकत्वे प्रयुज्यत आत्मवदिति स्वं निरायतिकं
मन्यन्त इति वक्तव्यम् । आत्मार्थे स्वं नपुंसकम् । इदं च वाग्व्य-
वहारादर्शऽनुबन्ध इत्यत्र सप्रमाणमुपपादितम् ।