पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५० शब्दापशब्दविवेके


५८. परितः पतन्ति दुष्कृतां विपदः । ५९. ग्लास्नुर्हि१ प्रायेण परिग्लायति मधुरादभ्यवहारात् । ६०. क्षीरस्रुतिविरतये प्रसूतायाः कुचाग्रयोरौषधविशेषं लिम्पेत् । ६१. राजा च प्रजाश्च द्वावपि स्वस्वकर्मसु स्वतन्त्राः । ६२. यदि भिषङ्नामौषधमेव जानाति निर्मातुं तदा भिषजाभिषजोः को विशेषः ? ६३. तदानीमयं नो देश: सुवर्णमयोऽर्थात्सम्पत्तिशाली बभूव । ६४. विद्याभ्यासेऽस्य प्रशस्यः पुरुषार्थो वर्णिन:२ । ५८. अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि इति परितोयोगे द्वितीयैव साध्वी । तेन दुष्कृत इति वक्तव्यम् । ५९. परिग्लायति मधुरायाभ्यवहारायेति वक्तव्यम् । पर्यादयो ग्लानाद्यर्थे चतुर्थ्येति समासविधानाल्लिङ्गाच्चतुर्थ्येव साधुः । ६०. कुचाग्रे औषधविशेषेण लेपयेत् इत्येवं वक्तव्यं णिचा । अणौ तु

औषधविशेष: कुचाग्रे (द्वितीया द्विवचनम्) लिम्पतीति प्रयोगः ।

लिप उपदेह इति घातस्तस्येदृशो व्यवहारः । लिम्पतीव तमो- ऽङ् गानीतिवत् । ६१. द्वयेऽपि, उभयेऽपीति वा वाच्यम् । द्वयमिति चोभयमिति च स्व- भावत एकत्वे बहुत्वे च प्रयुज्यते । द्विशब्दस्तु द्वित्वाविष्टां संख्या- माह । बहवश्च ते राजा च प्रजाश्च । ६२. भिषगभिषजोरिति वक्तव्यम् । चोः कुरिति कुत्वे झलां जशोऽन्त इति जश्त्वे च निर्दिष्टं रूपं साधु । ६३. सुवर्णमयः सम्पत्तिशाली वाऽऽसीदिति वक्तव्यम् । अर्थादिति पञ्चम्यन्तं मध्येवाक्यं पदान्तरेरणानन्वितं न प्रयोगमर्हति । नायं संस्कृतवाग्व्यवहारः । ६४. पुरुषस्यार्थः प्रयोजनमिति व्युत्पत्त्या पुरुषार्थशब्दो धर्मार्थकाम- मोक्षाणामन्यतममाह । ते धर्मादयश्चतुर्वर्ग इत्युच्यन्ते । मोक्षवर्जं च त्रिवर्ग इति । मोक्षश्च परः पुरुषार्थ इत्याख्यायते । पौरुषं तु नायं पुरुषार्थशब्दः कदाचिदाचष्टेऽन्यत्र हितोपदेशात् । तस्मात् पुरुषकार उद्योगोऽभियोगो वेति वक्तव्यम् । १. रुजा ग्लानः क्षीण उच्यते । २. ब्रह्मचारिणः ।