प्रकीर्णकम् ३५१
६५. द्वाः स्थ१ ! कमप्यागन्तुकमन्तरेतुं मा स्म दिक्षः ।
६६. चतुर्दशोत्तरैकोनविंशतिशतमिते ख्रिस्तवत्सरे विश्वं व्याप्नुव-
भीषणः सम्परायः प्रावर्तत ।
६७. भो: पुरोहित ! वैतरणीतरणार्थं दत्ता गौरद्यापि त्वदन्तिके
तिष्ठति । न जाने जनको मे कति वारान् वैतरण्यां निमग्नो-
मग्नोऽभविष्यत् ।
६८. इमे श्लोकाः प्रक्षिप्ता इति यदात्थ तत्कथं जानासीति पृष्टोऽसौ
जोषमभजत् ।
६९. तेषामियती विद्या नास्ति यया सत्यात्ये विवेक्तुं प्राभविष्यन् ।
७०. बहिः सन्नर्थः प्रत्यक्षं भवति न त्वन्त इत्यभिमन्यते ।
७१. उत्तरेण मे निकेतनं काञ्चनी वासयष्टिरित्युपलक्षय ।
७२. न संमुखमुपागतं शरणवाञ्छया दूरये ।
६५. कस्मा अप्यागन्तुकायेति वक्तव्यम् । अत्र तुमुन्प्रयोगविषये पुर-
स्ताद् विस्तरशो निगदितमिति नेह भूयो वितायते ।
६६. चतुर्दशोत्तरेष्वेकोनविंशतौ ख्रिस्त-वत्सरशतेष्विति वक्तव्यम् ।
अन्यथा एकोनविंशत्यधिकं शतमिति मध्यमपदलोपिसमास: स्यात्,
अर्थश्च विपरीयात् । एकोनविंशतिशतीति द्विगुर्वा स्यात् ।
६७. भवेदिति तु वाच्यम् । लिङ्निमित्ते लङ्ङनुशिष्ट: क्रियातिपत्तौ
गम्यमानायाम् । हेतुहेतुमद्भावश्च लिङो निमित्तम् । स चेह
नास्तीति कुतो लृङोऽवसरः ।
६८. जोषमिति तूणीमित्यर्थे पठितम्, मौनं तु नाह, येनाभजदित्य-
नेनान्वियात् । जोषमिति मकारान्तमव्ययम् ।
६९. प्रभवेयुरित्येव साधु । हेतुहेतुमद्भावो लुङो निमित्तम् । हेतुहेतु-
मद्भावश्च शब्दोक्त इष्यते न त्वार्थिकः । स चेह नास्तीति लृङो-
ऽविषय एषः ।
७०. अन्तर् इत्यभिमन्यत इत्येव साधु । अन्तरिति रकारान्तमव्ययम् ।
तेन रुत्वयत्वयलोपानामप्रसङ्गः ।
७१. नित्यं वृद्धशरादिभ्य इति मयटा भवितव्यम् । क्वचिदुत्सर्गा
अपवादविषयेऽभिनिविशन्त इत्यणि काञ्चनीति साधु ।
७२. णाविष्ठवद्बहुलमिति बहुलग्रहणात्क्वचिदिष्ठवद्भावो न । तेन
दवयामीत्यस्य प्रसङ्गे क्वचिद् दूरयामीत्यपि ।१. दौवारिक ।