पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३४९


४९. वसिष्ठद्वेषिणी चैषा ऋक्, अहं च वसिष्ठगोत्रीयस्तस्मान्नैनां व्याख्यास्ये । (निरुक्ते दुर्गः) ५०. कियन्तो बन्दिनोऽस्यां कारायाम् ? ५१. अहं हि तं धर्ममुत्सृजेयं योऽस्पृश्यतां शूद्राणां शिष्यात् । ५२. अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः । ५३. त्रयोऽपि सखायः सहोदराणामिव प्रीतिमन्त ऐक्यमैकार्थ्यं च गताः सुखं संवसन्ति । ५४. गभीरमपीदं जलाशयं प्रसादादुत्तानमिव भाति । ५५. समानेप्युद्योगे फलं विपरीयते । तत्कुतः । ५६. यः सुनोत्युत्पादयति सकलं जगत्स सविता । ५७. न हि धीरान् विपदः पराभवन्ति ।

४९. वासिष्ठो गोत्रेणेति वा वसिष्ठेन सगोत्र इति वक्तव्यम् गोत्रान्तान्छस्य तु प्रसङ्ग एव न । ५०. संयतेऽर्थे बन्दिरिति बन्दीति च प्रयुज्येत स्त्रियां नियते तेन कियत्यो बन्दयः कारायामिति वक्तव्यम् । बन्दिरिति बन्दीति वोच्यते स्त्रीलिङ्गेन । ५१. तमाम्नायं वा संप्रदायं वोत्सृजेयमिति युक्तं वक्तुम् । ५२. मामिकेति तु साधु । केवलमामकभागधेयेत्यादिना छन्दसि स्त्रियां ङीब्विधीयते । मामकशब्दश्चाण्णन्त इत्यण्णन्तत्वादेव सिद्धेस्तद्- ग्रहणं नियमार्थम् । तेन भाषायां डीब्न । ५३. सहोदरा इवेति वक्तव्यम् । षष्ठ्या नार्थः । ५४. गभीरोऽयं जलाशय इति वक्तव्यम् । जलाशयः पुमान् । ५५. विपरीयत इति विपरिपूर्वाद् ईङ् गतवित्यस्माद्दिवादेः कर्तरि लटि रूपम् । ५६. षुञ् अभिषवे । अभिषवः स्नानं सुरासन्धानं च । तेन सुनोत्युत्पा- दयतीति यदुक्तं तन्न साधु । सवितृशब्दश्च षू प्रेरणे इति तुदादेः परस्मैपदिनो व्युत्पाद्यते । सुवति लोकं कर्मणीति सविता । ५७. प्रायेण पराभवतिरकर्मको दृष्टः । तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवरित्यत्र भाष्ये तथा दर्शनात् । परिपूर्वस्तु सकर्मकः । तेन विपदः (कर्त्र्य:) परिभवन्तीति वक्तव्यम् ।