पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४८ शब्दापशब्दविवेके


४३. कश्मीरो नाम जनपदो भृशेखरायमाणो विधातुरुत्तमः सर्गः । ४४. अतीतान्मासत्रयात्प्रवृत्तस्य मिश्राङ्गलदेशयोः कलहस्य नाद्याप्यु- पशमः । ४५. ये नाम विरला हिन्दवः पाकिस्थानेऽवशिष्टास्तेपि यत्नेन विष्ठा- प्यन्ते१ तत्रत्यैरधिकारिभिः । ४६. देवदत्ताया द्वे सुते, सुकन्या च सुरुचिश्च । तयोः सुरुचिर्विदुषी- तरा । ४७. अस्या गमने मुहूर्तमन्तरायो भवन्त्या त्वया ममेष्टमाचरितम् । ४८. विश्वजनीनाः का अपि मर्यादाः पुरातन्य इत्येव तासां ध्वंसाय मा स्स पराक्रामत । ४३. कश्मीरा नाम जनपद इत्येवं बहुत्वे कश्मीरशब्दः प्रयोज्यो व्यव- हारं चेदनुविधित्ससे । लक्षणैकचक्षुष्को मा स्म भूः । १४. अतीतं मासत्रयं प्रवृत्तस्येत्यादि वाच्यम् । अत्यन्तसंयोगे द्विती- यैव साध्वी । मासत्रयं स्वयं निर्मितः कालोऽस्ति न तु यतः काल- निर्माणम् । यत: कालनिर्माणे च पञ्चमीष्यत इति पञ्चम्या अप्रसङ्गः । ४५ प्रस्थाप्यन्ते तत इति वक्तव्यम् । विष्ठापयतिस्तु विशिष्टं स्था- पनमाह । ४६. विदुषितरेति वाच्यं विद्वत्तरेति वा । उगितश्चेति ह्रस्वविकल्पः । ह्रस्वाभावपक्षे तसिलादिष्विति पुंवत्त्वम् । ४७. अन्तरायेण भवन्त्या त्वयेति वक्तव्यम् । प्रातिपदिकार्थे प्रथमा तु नेह युज्यते । ४८ विश्वजनेभ्यो हिता इति विश्वजनीनाः । आत्मविश्वजनभोगो- त्तरपदात्खः । उपपराभ्यामित्यनेन सर्गेर्थ परापूर्वात्क्रमेरात्मनेपद- मेव साधु । तेन मा स्म पराक्रमध्वमिति वक्तव्यम् । १. प्रस्थाप्यन्ते, बहिष्क्रियन्ते निर्वास्यन्त इत्यर्थं विवक्षति ।