पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३४७


३६. साङ्ख्ये मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृति विकृति: पुरुषः । इत्येवं पञ्च- विंशतिः पदार्थव्यूहः । ३७. स वै शत्रुरात्मजाया य इमां शिक्षया रहयति । ३८. यदाऽयं गाढनिद्रायां शेते तदा न किमपि बाह्यं स्मरति । ३९. मया मौखिकमुत्तरित: प्रश्नः, तेन प्रासदन्प्राश्निकाः । ४०. लोकमान्यस्य गाङ्गाधरेः श्रीबालस्यादर्शचरितं कस्य नानुकरणी- यम् । ४१. केचिदनात्मज्ञाः पाकिस्तानस्था भारतं युद्धभयं दर्शयन्ति । ४२. अनपत्यो नृपतिः शुचा परीतो राज्ञीमाह-यत्तया राज्यहिताय कश्चिद्बालो दत्तक इति स्वीकार्यः । ३६. पञ्चविंशक इति तु वक्तव्यम् । पञ्चविंशतिस्तत्त्वानि परि- माणमस्य पदार्थव्यूहस्येति विग्रहः । तदस्य परिमाणमिति ठञि प्राप्ते विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायामिति ड्वुन् । प्रातिपदिक- ग्रहणे तदन्तस्याग्रहणमिति पञ्चविंशतेर्न प्राप्नोतीति मास्म शङ्कि । प्राग्वते: संख्यापूर्वपदानां तदन्तग्रहणमलुकीति इष्ट्या भविष्यति । ३७. योऽनया शिक्षां रहयति (त्याजयतीत्यर्थः) इति वक्तव्यम् । रह त्यागे चुरादिष्वदन्तः । ३८. यदाऽयं गाढं निद्रातीति वक्तव्यम् गाढया निद्रया शेत इति वा । तत्रेत्थम्भूतलक्षणे तृतीया ज्ञेया । शेते इति च निपद्यत इत्यनेन समानार्थकम् । यथा शयाना वर्धते दूर्वेत्यत्र । ३९. मया मुखेनोत्तरितः प्रश्न इति वक्तव्यं मया वाचा प्रत्युक्तः प्रश्न इति वा । तद्धितवृत्त्या नार्थः । ४०. श्रीबालस्यानुत्तमं चरितमिति वक्तव्यम् । आदर्शो मुकुरो भवति । तेन श्रीबालस्य चरितं लोकस्य लोकचरितस्य वाऽऽदर्श इति वक्तव्यम् । आदर्श इवादर्शः । ४१. दृशेश्चेति वक्तव्यमिति णिच्यणौ कर्तुः कर्मत्वम् । अभिवादि- दृशोरात्मनेपद इत्यात्मनेपद एव विकल्पः । दर्शयन्त इति च वक्तव्यम् । ४२. यत्परमभिसम्बोध्याभिधीयते तत्र युष्मच्छब्द उपपदमुपतिष्ठते (मध्यमश्च पुरुषोनुप्रयुज्यते) इति संस्कृतस्वालक्षण्यम् । तेन त्वया राज्यहितायेत्यादि वक्तव्यम् । ।