प्रकीर्णकम् ३४५
१८. यत्त्वं प्रास्तौषोस्तन्नाहमनुमोदे ।
१९. यज्ञदत्त: षोडशवर्षां गुण्यामात्मसदृशीं कन्यामुपायत ।
२०. स पापो यः परकीयमर्थं गृध्यति ।
२१. अस्मभ्यं तु न किमपि प्रतिभाति ब्रह्मणो विनेति रूढिसाधवः१ ।
२२. दण्डस्य हि भयात्सर्वं जगद् भोगाय कल्पते ।
२३. त्रिपाद् गायत्री भवति न तु चतुष्पात् ।
२४. तातं क्षमां प्रार्थयित्वा लघयति स्वमागः२ कुमारः ।
२५. अनुक्तमप्यूहति पण्डितो जनः ।
२६. अद्यतनीयाः पण्डितमानिनः केचन शिष्टजुष्टां वाग्वर्तनीं व्यति-
क्रामन्ति न च तत्र दोषं पश्यन्ति ।
१८. स्तुसुधूञ्भ्यः परस्मैपदेष्विति नित्यमिटि प्रास्तावीदित्येव साधु ।
१९. उपायतेति साधु । विभाषोपयमन इति वा सिच: कित्त्वेऽनुदात्तो.
पदेशवनतितनोत्यादीनामित्यादिनाऽनुनासिकलोपः । पक्ष उपा-
यंस्तेत्यपि ।
२०. गृधु अभिकाङ्क्षायामिति घातुरकर्मक इति प्रसाधितं वाग्व्यवहा-
रादर्शं धातुस्वरूप विवेचने, तेन परकीयेऽर्थे गृध्यतीति वक्तव्यम् ।
२१. प्रतिभातियोगे द्वितीया भवति यथा यावद्योग इति दुर्घटवृत्ति-
कारः । अस्मांस्तु न किमपि प्रतिभातीत्येवं वक्तव्यम् । भातीति
वोपसर्गपरिहारेण । अस्माकमिति च शेषे षष्ठी प्रयोज्या ।
२२. पञ्चमी भयेनेति समाससूत्राल्लिङ्गाद् भयशब्दयोगे पञ्चमीष्टा ।
तेन दण्डाद्भयादित्येव साधु । एवं भीषाशब्दयोगेऽपि पञ्चमी ।
यथा -भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादग्नि-
श्चेन्द्रश्चं मृत्युर्धावति पञ्चमः (तै ० उ० २।८) ।
२३. टाबृचीति पादन्ताट्टापि त्रिपदा गायत्री भवति न तु चतुष्पदेति
वक्तव्यम् ।
२४. समासेऽनञ्पूर्वे क्त्वो ल्यप् इति प्रार्थ्येति साधु ।
२५. ऊह वितर्के इत्यनुदात्तेत् । तेन ऊहत इति वक्तव्यम् ।
२६. अद्यतना इत्येव साधु । सायं चिरं प्राह्णे प्रगेव्ययेम्यष्ट्युट्युलौ
तुट् चेति ट्युल् प्रत्ययस्तुडागमश्च । छप्रत्ययस्य तु प्रसङ्ग एव
नास्ति । १. रूढ्या साधवः । येषां साधव इति प्रसिद्धिः । ये तापसव्यञ्जनाः । २. आगोऽपराधः । सकारान्तं प्रातिपदिकं क्लीबम् ।