पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४४ शब्दापशब्दविवेके


८. न हि पथभ्रष्ट: कश्चिद् गन्तव्यं स्थानं गतः । ९. हितं सम्पादयेन्नृणां मनोवचनकर्मणा । १०. त्रक्षुषां गोचरो नाऽयं बुद्धेश्च विषयो न च । ११. विनाशः परिवर्तनमिति सर्गनिसर्गः । १२. अहोऽस्मि परमप्रीतो यस्य मे तादृशः सुतः । १३. अविनश्वराऽऽकल्पान्तस्थायिनी कीर्तिरस्य महात्मनो भविष्यति । १४. अत्रार्थे किमप्युपष्टम्भकं प्रमाणं नोपलभामहे । १५. निर्गुणे निरञ्जने परब्रह्मणि गुणान् विशेषांश्च कल्पन्ते मन्दाः । १६. यदस्य जीवितध्येयं तन्नायं विस्मरेत् । १७. किमित्यज्ञवदनुकुरुषे परेषाम् । सदसती विविच्य प्रवर्तस्व । ८. न हि पथिभ्रष्टः कश्चिदित्येवं वक्तव्यम् । यदि नाम पथशब्दो- ऽप्यस्तीत्याग्रहस्तर्हि यथान्यासमेवास्तु । ९. मनोवचनकर्मभिरित्येवं वक्तव्यं मनसा वाचा कर्मणा चेति वा । पूर्वत्र समाहारस्तु नेष्टः, पृथगात्मताया अभिव्यक्तेरिष्टत्वात् । १०. चक्षुषामिति बहुवचनमपार्थकम् । चक्षुषोर्गोचर इत्येव साधु । एकत्र गोचरशब्दप्रयोगोऽपरत्र विषयशब्दप्रयोग इति वैषम्य सहृदयमाकुलो करोति । ११. विनाशः परिवर्तनं चेति वक्तव्यम् । अत्र चकार उपेक्षितः, स दोषः । १२. अहो अस्मीति साधु । ओत् इति प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावः । १३. अविनश्वरीति वक्तव्यम् । इण्नशजिसर्तिभ्यः क्वरप् । टिड्ढारणञ् इत्यादिना ङीप् । १४. उपस्तम्भकमिति वक्तव्यम् । मूर्धन्यादेशस्याप्रसङ्गात् । १५. कल्पयन्तीति ण्यन्ताल्लटि साधु स्यात् । कृपू सामर्थ्ये इत्यकर्मक एष धातुः । १६. यदर्थमयं जीवेत्तन्नायं विस्मरेत् । योऽस्य परम: पुरुषार्थस्तं नायं विस्मरेत्, इह (लोके) यदस्य लक्ष्यं तन्नायं विस्मरेदिति वा वक्तव्यम् । १७. अनुकरोषीत्येव साधु । अनुपराभ्यां कृञ इति परस्मैपदम् ।