पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ प्रकीर्णकम्


१. त्वमसि करुणागाधपयःपयोनिधिः । अभ्युपपद्यस्व१ नः । २. मूषका: स्वतीक्ष्णदन्तैः कपोतानां पाशानच्छिन्दन् । ३. मान्यास्ते मातापित्रध्यापका: । ४. बङ्गस्य श्रीचित्तरञ्जनं को न वेद वदान्यम् । ५. तस्य नेतृत्वे समागता भूयांसो जना: कर्मठा:२ कर्माश्चर्याणि चक्रिरे । ६. इह लोकेऽहिंसया कथं शान्तिः संभवा स्यादिति चोदयन्ति लौकिका अदृष्टसतत्त्वा:३ । ७. द्वित्राणि स्वनिबन्धानां मे प्रेर्याणीति विज्ञप्तिः । १. करुणैव पय इति करुणापयः । मयूरव्यंसकादिः । करुणापयसां पयोनिधिरिति करुणापय:पयोनिधिः । स चागाध इति अगाध- करुणापय:पयोनिधिरित्युचितं वक्तुम् । २. तीक्ष्णै: स्वदन्तैरिति वक्तव्यम् । उक्तो हेतुः समासविवेचने । ३. नायमृकारान्तानां समास इत्यानङ् नेत्यदोषः । ४. बङ्गानामिति साधु स्यात् । बाङ्गकमिति तूच्यभानं साधीय स्यात् । पूर्वत्र बङ्गानां (क्षत्रियाणां) निवासो जनपदो बङ्गाः । उत्तरत्र अवृद्धादपि बहुवचनविषयादिति शैषिको वुञ् । ५. तं नेतारमाश्रिता इति तन्नेत्रा इति वा वक्तव्यम् । अत्र नेतृ- पर्यायो नेत्रशब्दः । इयमेव संस्कृतभाषितभङ्गिः । ६ शान्तिः संभविनीति वक्तव्यम् । संभवनं संभवः । ऋदोरप् । सोऽस्या अस्तीति संभविनी । ७. द्वित्रशब्दः संख्येय एव वर्तते न तु संख्यायाम् । तेन द्वित्रा: स्व- निबन्धा मे प्रेर्या इति विज्ञप्तिरित्येवं विपरिणमय्य वक्तव्यम् ।१. अनुगृहाण । परित्रायस्वेत्यर्थः । २. कर्मशूराः । अदृष्टवस्तुस्वरूपाः । तत्त्वसतत्त्वशब्दौ समानार्थकौ ।