पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४२ शब्दापशब्दविवेके


१७७. इत्येषा द्वयोर्विशोका विषयवती अस्मितामात्रा च प्रवृत्तिर्ज्यो- तिष्मतीत्युच्यते (यो० सू० भा० १।३६) । १७८. यावन्ति विष्वक्तेजांसि सिद्धरूपगुणानि च । नेत्रातिथीनि तावन्ति (स्कन्द० का० ४) । १७७. मात्रं कार्त्स्न्येऽवधारण इत्यमरान्मात्रं (समासान्ते वर्तमानं) नित्यं क्लीबम् । यथा ऋगेव ऋङ् मात्रम् । कृत्स्ना मनुष्या मनुष्यमात्रम् । १७८. अतिथिर्ना गृहागत इत्यमरः । विषयभावगतोऽर्थं इति गौणे- र्थेपि नातिथिशब्दः स्वं लिङ्गमतिहास्यति । इति लिङ्गविवेचनं समाप्तम् ।