पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिङ्गम् ३४१


१७०. त्रिदशतरुमधो: श्रौतवाचां च सेकः (करुणा० ६४) । १७१. रमाशती क्षीरनिधेः सृतेव (मोह० ५।३३) । १७२. ज्ञानासिना नहि हता यदि मोहतन्त्रा (मोह०८।१२) १७३. असत्यशेषोहि पदार्थजात: (मोह० ८।४) । १७४. धेनुन् नागतुरङ्गमांश्च बहुशः शालासु बद्धान् (मोह० ६।४) । १७५. मुञ्चे मगधाचारं प्रमाणा यदि ते वयम् (भा० वन० १७१।१७) । १७६ गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् (हरि० ३।९।१). स्त्रियां टाप् कुतो न । सर्वमिदमाकुलम् । न चेह किञ्चिदना- कुलम् । १७०. त्रिदशतरुमधोरित्यत्र मधुशब्द: पुष्परसवचनः पुंसि प्रयुक्तः । नपुंसकं चायमिति नाविदितं विदुषाम् । १७१. रमाशतीत्यत्र स्त्रीत्वं दुर्लभम् । शतशब्दो हि लोक वेदयो नपुं- सकत्वे रूढः । रमाणां शतम् इति विग्रहे षष्ठीसमासे स्त्री- प्रत्ययो दुर्लभः । नैष द्विगुः, येन द्विगोरिति ङीप् स्यात् । अद्यत्वे हिन्द्यां स्त्रीत्वे शतीति व्यवहारः । हन्त गड्डरिकाप्रवाहमनुपतितः कविः । १७२. मोहतन्त्रा इत्यत्र तन्त्रं नपुंसकमिति लिङ्गानादरः । षष्ठी- समासोऽयं न बहुव्रीहिः । १७३. पदार्थजात इत्यत्र पुंस्त्वं किमपि दुनोति चेत: सचेतसाम् । लोकतन्त्रं लिङ्गं न प्रयोक्तुरायत्तम् । लोकस्तु समूहे जातशब्दं नयत्येन नपुंसकत्वे प्रयुङ्क्ते । १७४. धेनून् इत्यत्र पुंस्त्वे धेनुशब्दप्रयोगो मनोऽस्वास्थ्यं गमयति प्रयोक्तुः । स्वस्थचेतास्तु नैवं प्रयु्ञ्जीत । १७५. प्रमाणशब्दो भाजनादिवदजहल्लिङ्ंग नपुंसकम् । तेन प्रमाणं यदि ते वयम् इत्येवं वक्तव्यम् । १७६. गभस्तिः पुंसि नियतः । मरीचिः स्त्रीपुंसयोः । दीधितिः स्त्रि- याम् इत्येतौ वर्जयित्वा सर्वे किरणवाचकाः शब्दाः पुंसि नियताः ।