- ३४० शब्दापशब्दविवेके
१६३. कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसके (अमरः) ।
१६४. यच्चोपकारकं तदुपकार्यं प्रधानमपेक्ष्य गुणो भवति (न्यासे १।४।
५१) ।
१६५. केचिल्लक्ष्मीदरीशब्दौ प्रातिपदिकौ पठन्ति (गणरत्न० पृ० १७३)
१६६. यथा लोक ऋषभस्योपरि ककुदुन्नतं भवति (ले० ब्रा० ३।८।३।३
सायणभाष्ये) ।
१६७. क्वचित्प्रेक्षागेहा: (मोह० १।१०) ।
१६८. वीणावेणू मधुर मधुरे वाद्यमाने च शृण्वन् (मोह० २।११५)
१६९. कन्यारत्नोत्तमोऽसौ (मोह० ३।१२) ।
१६३. गाण्डीवगाण्डिवशब्दौ मत्वर्थे व-प्रत्ययान्तौ । पुन्नपुंसके इति
प्रथमाद्विवचनमजहल्लिङ्गम् । तेनेदं निर्दुष्टं वचः ।
१६४. गुणः पुमानजहल्लिङ्गश्च । तेनोद्देश्यस्य भिन्नलिङ्गत्वेऽपि न
दोषः ।
१६५. प्रातिपदिकाविनि दुष्यति । प्रातिपदिकमिति शब्देन पुंसा सामा-
नाधिकरण्येपि स्वं लिङ्गं न जहाति । आचार्योऽपि अर्थवदधातुर-
प्रत्ययः प्रातपदिकम् (१।२।४५) इत्यत्र तृतीया प्रकृतिः प्राति-
पदिकशब्द इति मनुते ।
१६६. ककुदिति दकारान्ता स्वतन्त्रा प्रकृतिर्वेदेऽनेकत्र प्रयुक्ता । सा च
स्त्रियां नियतेति कथङ्कारं व्यस्मार्षीत्सर्वं वेदभाष्यकारः । स्ख-
लनधर्माणो मनुष्याः ।
१६७. प्रेक्षागेहाः । गेहं नित्यं नपुंसकम् । गृहशब्दस्तु पुम्भूम्नि प्रयु-
ज्यते । गेहशब्दे तु स व्यवहारो नाभ्यनुज्ञायते ।
१६८. वीणा च वेणुश्चेति वीणावेणू । वेणुरिति पुमान् । तथा सति
मधुरमधुरे इति क्लीबं विशेषणं कथम् । मधुरमधुरावित्येव
साधु ।
१६९. कन्यारत्नोत्तम इत्यत्र न समासो घटते न च पुंस्त्वम् । कन्या
रत्नमिवेति कन्यारत्नम् इत्युपमितसमासः । उत्कृष्टा कन्येति
चार्थः । जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयत इत्युक्तेः । एवं
सति गडुभूतेनोत्तमशब्देन किम् । असाविति कन्यामभिधत्ते ।
मात्र पुरुषः कश्चित् प्रत्यवमृश्यते । तेनोत्तमान्तात्प्रातिपदिकात्