लिङ्गम् ३३९
१५५. कथमास्ते तमो भानौ कथमास्ते हिमोऽनले (यो० वा० ४।१।२१) ।
१५६. द्विविधो भवति प्रष्टा तत्त्वज्ञोऽज्ञोऽथापि च । अज्ञस्याज्ञतया देयो
ज्ञस्य तु ज्ञतयोत्तरः ।। (यो० वा० ६ (उ०) २९।३२) ।
१५७. भूमिर्धनं श्रमो बुद्धिर्यस्यास्ति सविधे च यत् ।
तद् दत्त्वा क्रियतामार्याः पूर्णं भूदानयज्ञकम् ॥
१५८. कणं कणं धान्यमितस्ततो बिले चितम् ।
१५९. ये चाष्टावश्रयो रत्नं परितो लक्षितास्त्वया (बृ० श्लो० ५।५१)
१६०. तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः (रघु० १५।२३)
१६१. पार्श्ववर्ती स्नेहपात्रीमपि धात्रीमभीषयत् (शि० भा० ५।२३) ।
१६२. रसाद्रक्तं ततो मांसं मांसात्मेदः प्रजायते ।
मेदसोस्थि ततो मज्जा मज्जायाः शुक्रमुच्यते ॥
-
१५५ तुषारस्तुहिनं हिमम् इति कोषाद् हिमं नपुंसकम् ।
१५६. अत्र वाक्य उत्तर इति पुंसि प्रयोगो दुष्टः । वस्तुत उत्तरमित्यु-
त्तरवाक्यमित्यर्थे संक्षिप्तं वचः । अनन्तरोक्तं यत्किञ्चिदित्यर्थं
सामान्ये नपुंसकमिष्यते ।
१५७. भूदानयज्ञकम् इत्यत्र नपुसकत्वं दुःसमाधानम् । स्वार्थेऽत्र कन् ।
स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति यल्लिङ्गो यज्ञ-
शब्दस्तल्लिङ्ग एव यज्ञको युज्यते। यज्ञशब्दश्च नप्रत्ययान्तः
पुमान् ।
१५८. कणः कण इत्येव शोभनम् ।
१५९. अश्रिशब्द इह पुंसि प्रयुक्तः, स्त्रियां चायं नियतः । स्त्रियः
पाल्यश्रिकोटय इति चामरः ।
१६०. भुजबाहू प्रवेष्टो दोरित्यत्रामरे दोरिति भुजादिभिः पुम्भिः समं
पठितम्, तेन दोरपि पुंसि विज्ञायते । विशेषश्च नोक्तः । कविना
तु दक्षिणं दोरुद्यम्येत्यत्र द्वितीयान्तं नपुंसकं प्रयुक्तम् । तेन
प्रमाद एवायम् ।
१६१. स्नेहपात्रीमपि घात्रीम् इत्यत्र स्नेहपात्रमिति वक्तव्यमवक्त-
व्यतायै । अत्रार्हार्थे पात्रमजहल्लिङ्गम्।
१६२. मज्जेति दुष्टम् । डाबुभाभ्यामन्यतरस्यामित्यनेन डापोऽप्राप्तेः ।
अन्नन्ताद् बहुव्रीहेर्डाब्विकल्पः । न चायं बहुव्रीहिः ।