३३८ शब्दापशब्दविवेके
१४९. गुडकल्पेयं द्राक्षाऽतितर्पयति रसनाम् ।
१५०. विषामतयोराकरी जिह्वा ।
१५१ चक्षुर्हि शरीरिणां नेता ।
१५२. अकार्यप्रवृत्ते: शास्त्राङ्कुशं वारयति ।
१४३. अनिष्टकर्मक्षयहेतूनि हि प्रायश्चित्तानि भवन्ति ।
१५४. जाताः स्थलानि सरितः सरितो मरूणि रोधांसि रुद्धवनवेणि-
रयाणि पेतुः (अभिनन्दकृते रामचरिते २५।१९) ।
१४९. विभाषा सुपो बहुच्पुरस्तात्तु (५।३।६८) इति सूत्रे तुशब्दोऽव-
धारणार्थः । अवधारणार्थस्यास्य तुशब्दस्य त्वन्यदेव प्रयोजनम् ।
पुरस्तादेव सर्वं यथा स्यादिति । तेन लिङ्गसंख्ये अपि प्राक्
प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः । तेन बहुगुडो
द्राक्षा लघुर्बहुतृणं नर इत्यादी प्रकृतिवल्लिङ्गं भवति । नेदं
तुग्रहणस्य प्रयोजनमिति भाष्यकार: । स्वार्थिकोऽयं (बहुच्) । स्वा-
र्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते । एवं तर्हि सिद्धे सति
यत्तुग्रहणं करोति तज्ज्ञापयत्याचार्यः स्वार्थिका अतिवर्तन्तेपि
लिङ्गवचनानीति । तेन गुडकल्पा द्राक्षा तैलकल्पा प्रसन्ना पय-
स्कल्पा यवागूरित्येतत् सिद्धं भवति । अयमर्थः-ईषदसमाप्तौ
येऽन्ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गसंख्ये भवत इति ।
१५०. खनि: स्त्रियामाकरः स्यादित्यमरवचनादाकरः पुमान् । घ-
प्रत्ययान्तोऽयं पुंसि नियतः ।
१५१. चक्षुर्हि शरीरिणां नेतृ इत्येवं वाच्यम् । उद्देश्यस्य चक्षुषो नपुं-
सकत्वाद्विधेयस्य नेतृशब्दस्यापि नपुंसकतेष्यते ।
१५२. अङ्कुशोऽस्त्री सृणि: स्त्रियामित्यमरोक्तेरङ्कुशम्पुन्नपुंसकम् ।
तेन यथास्थितं साधु ।
१५३. हेतुशब्दः पुंसि नियतः । षष्ठीतत्पुरुषश्चायं समासोऽनिष्टकर्म-
क्षयादि । परवल्लिङ्गता च द्वन्द्वतत्पुरुषयोः प्रसिद्धत्यनिष्टकर्मक्षय-
हेतव इत्येव साधु । उद्देश्यस्य नपुंसकत्वेऽपि ।
१५४. अत्र मरूणीत्यत्र क्लीबता दुष्यति दुःखयति च रामचरित-
काराद् व्यतिरिक्तान् पठकान्पाठकांश्च । समानौ मरुधन्वानौ ।
मरू धन्वधराधरावित्युभयत्रामरो मरुं पुमांसमाचष्टे । प्रयोगाश्च
यत्र तत्र पुंसि प्रथन्ते ।