लिङ्गम् ३३५
१२२. तरुराजिवलयिताः सानव: सस्यश्यामलकेदारालंकृताश्चोप-
कण्ठा:१ पर्वतानां हृदयानि हरन्ति यात्रिकाणाम् ।
१२३. अद्य मे दर्पणं कराद्विगलितमत्रुटीत्२ । स्वं मे दातुमर्हसि क्षणम् ।
१२४. विशालोऽस्य ललाटो व्यूढं चोरः प्रलम्बौ च बाहू इति भाग्य-
वानयं भाति ।
१२५. मन्ये दूरमुत्सारिता दोषनिकुरम्बाः३ । इदानीं सर्वमवदातम् ।
१२६. इदं कथककोलाहलं कर्णयोर्ज्वरमिव नः समुत्पादयति ।
१२७. नूनं पातित्याङ्कुराणि प्ररोहोन्मुखानि द्विजेषु ।
१२८. सा देवी मम च प्राणा रावणेनोभयं हृतम् (रा० ३।६७।१५) ।
१२९. अनृतं वदन्नपि यदयमृतं वदामीत्याभासयति स परः सीमा
चातुर्यस्य ।
१३०. इदं कौक्षेयकं४ गृह्यतां निकृत्यन्तां च शिरांसि द्विषाम् ।
१२२. उपकण्ठशब्दोऽव्ययमनव्ययं च । अव्ययत्वे तूपकण्ठमित्येकवचनान्तं
क्लीबमेव साधु स्यात् । प्रादिसमासे त्वनव्ययम् । तथाभूतः स
पुन्नपुंसकयोः । स्नुः प्रस्थः सानुरस्त्रियामिति त्रीणि पुन्न-
पुंसकलिङ्गानि । तस्मात्प्रकृते न कश्चिद्दोषः ।
१२३ दर्पणे मुकुरादर्शावित्यमरादेते त्रय एव पुमांसः ।
१२४ ललाटमलिकं गोधिरित्यमराल्ललाटं नपुंसकम् ।
१२५. निकुरम्बं कदम्बकमित्यमरः । तेन दूरमुत्सारितानि दोषनिकुर-
म्बारणीति वक्तव्यम् ।
१२६. कोलाहलः कलकल इत्यमरः ।
१२७. अङ्कुरोऽभिनवोद्भिदोत्यमरादङ्कुरः पुमान् । अङ्कुराः प्ररो-
होन्मुखा इति वाच्यम् ।
१२८. उभयमिति सामान्ये नपुंसकम् । उभयं हृतम् । किं तदित्याह--
सा देवी मम प्राणाश्चेति ।
१२९. सीमसीमे स्त्रियामुभे इति परा सीमेति वक्तव्यम् ।
१३०. कौक्षेयको मण्डलाग्र: करवालः कृपारगवत् इत्यमरात् कौक्षेयक:
पुमान् ।१. प्रत्यन्तभूमयः । २. त्रुटेस्तौदादिकाल्लुङि । कुटादित्वाद्गुणाभावः ।
३. समूहाः । ४. खड्गः ।