पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३४ शब्दापशब्दविवेके


११४. गरुडो ध्वजायां यस्य सोऽयं गरुडध्वजो विष्णुः । ११५. किमित्यनर्थसार्थं मौनं सुखं सेव्यते ? ११६. यं यमक्षरं तैलङ्गपण्डितोऽवोचत्त स सत्योऽभवत् । ११७. खगबाल्यादिनोर्वयः । (अमरे) ११८. यः सतामालवालः१ शुष्यद्गीर्वाणवाणीसुमनस्तृप्तये२ मेधमालो- ऽभूत् क्वासौ सम्प्रति पुण्यायतनं पण्डितो मदनमोहनो मालवीयः । ११९. परिमितसंख्यैः संख्यातीतानामाक्रमणादात्मधातमेवेति स्थितम् । १२०. इयमुक्तिर्नमे चाटुश् चिन्तनीयः । १२१. कामं सर्वस्वं नो नश्येन्न तु मानम् । मानेन हीनास्तु न जीवामः ।

११४. केतनं ध्वजमस्त्रियामिति ध्वजः स्त्री न । ध्वजो ध्वजं वेति वक्त- व्यम् । ११५. अनर्थसार्थ इत्येवोचितम् । सार्थशब्दः पुंसि नियतः । संघसार्थौ तु जन्तुभिरित्यमरात् । मुख्यया वृत्त्या संघः सार्थश्च प्राणिसमूह- मेवाचक्षाते । तत्पुरुषश्च प्रकृतः समासः । तत्पुरुषे सम्भवति व्यधिकरणबहुव्रीहिपरिग्रहस्यान्याय्यत्वात् । ११६. अक्षरशब्दो नपुंसकम् । वर्णो ब्रह्म मोक्षश्चाक्षराणि । ११७. खगश्च बाल्यादि चेति विग्रहः । द्वन्द्वः । बाल्यादि इति च बहु- व्रीहिः । बाल्यमादिर्यस्येति तद्विग्रहः । परवल्लिङ्गं द्वन्द्वतत्पुरुष- योरिति द्वन्द्वे बाल्यादीत्युत्तरपदस्य नपुंसकत्वात्खगबाल्यादिनो- रिति सप्तमीद्विवचने रूपं साधु । ११८. स्यादालवालमावालमावाप इत्यमर पालवालशब्दं क्लीबे पठ- तीत्यालवालमित्येव पठनीयम् । मेधमालेति टाबन्तं युक्तम् । मेघानां माला मेघमाला । सेवेत्यौपमिकः प्रयोगः । तत्र भवति मदनमोहन आलवालत्वं मेघमालात्वं चारोप्यते । ११९. आत्मघात इति तु न्याय्यम् । १२०. चाटुशब्दः पुन्नपुंसकयोरित्याभिधानिकाः । तथा च ऋतुसंहारे प्रयोग:--- 'प्रियः प्रियायाः प्रकरोति चाटुम्' इति । तेन प्रकृते ऽदोषः । १२१. मान इत्येवोचितं वक्तुम् । मन्यतेर्घञि मानः ।१. आवापः, जलाधारः । २. सुमनाः पुष्पम् । इदमेकत्वेऽपि प्रयुज्यते ।