लिङ्गम् ३३३
१०३. सज्जं तवेदं कुङ्कुमकर्दमम्, यथेष्टमुपयुङ्क्ष्व ।
१०४. मृत्युर्वै प्राणिनां ध्रुवा ।
१०५. अवनतेश्चरमं सीमानं विलोक्य परं दुःख्यन्ति१ सहृदयाः ।
१०६. जैनसाधूनामुपाश्रयाणीमानि निःशब्दलेशानि ।
१०७. मल्लिकायाः कण्ठस्वरमतिमधुरमिति प्रसिद्धिः ।
१०८. दानशौण्डेन देवशर्मणाऽत्र ग्रामे औषधालयमप्येकं प्रतिष्ठापितम्।
१०६. न हि कश्चिद् व्यक्तिरत्र दुष्यति, समष्टिरेव तु दोषभाक् ।
११०. अयं सुपन्थाः, अयं च विपथः, येनेष्टं तेन गम्यताम् ।
१११. शेषं स्पष्टम् ।
११२. दरिद्रस्य मृतिरेव वरा न तु बन्धुमध्ये जीवितम् ।
११३. मन्दाकिन्या: पयः शेषं दिग्वारणमदाविलम् । (कुमारे)
१०३. पङ्कोऽस्त्री शादकर्दमावित्यमरः । तेन कर्दमशब्दः पुमान् ।
१०४. अन्तो द्वयोर्मृत्युमरणं निधनोऽस्त्रियाम् इत्यमरान्मृत्यु: स्त्री-
पुंसयोः । तेन नात्र कश्चिद्दोषः ।
१०५. सोमसीमे स्त्रियामुभे इत्यमरप्रामाण्यात्सीमन् इति नकारान्तमपि
स्त्रियामेव । तेन चरमां सीमानमिति वक्तव्यम् ।
१०६. उपाश्रयशब्द एरच् इत्यजन्त इति पुंसि नियतः ।
१०७. कण्ठस्वरोऽतिमधुर इति तु युक्तम् ।
१०८. पुंसि संज्ञायां घः प्रायेण इति प्रालयशब्दो घान्तः । घाजन्त इति
पंसि नियतः ।
१०६. विपूर्वाद् अञ्जेः क्तिनि व्यक्तिरिति व्युत्पद्यते । तेन स्त्रीत्वं
तियतम् । व्यज्यते जातिरत्रेति व्यक्तिः पृथगात्मता ।
११०. पथ: संख्याऽव्ययादेः क्लीबतेष्यत इति विपथमिति वक्तुमुचितम् ।
यत्तु व्यध्वो दुरध्वो विपथः कदध्वा कापथः समा इत्यमरो विपथ-
शब्दं पुंसि पपाठ तच्चिन्त्यम् ।
१११-११२. शेषशब्दो घञन्तः । घञबन्त इति पुंसि प्रयोग इष्यते । भावे
घञं प्रति पुंस्त्वमुक्तम्, करणादिघञन्तस्य नानालिङ्गतेति बल्लभः।
११३. मनाक्प्रि ये वरमित्येव युक्तम् । तथा च शब्दार्थार्णवसंक्षेपे
केशवः-देवादीप्सितजामात्रोर्वरः श्रेष्ठे पुनस्त्रिषु । मनागिष्टे
भवेत्क्लीबमन्ये त्वाहुस्तदव्ययम् ॥
..१. दुःखमनुभवन्ति ।