३३२ शब्दापशब्दविवेके
९५. वश्यवाच: श्रीवाचस्पतिमिश्रा दर्शनेषु वैदुष्यनिकषाणि दार्श-
निकहृदयहारीणि व्याख्यानानि वितेनिरे ।
९६. देवदत्त: परोक्षोत्तीर्णानां गणनाप्रसङ्ग कनिष्ठिकाधिष्ठितोऽ
भूदिति प्राश्निकाः१ पुष्कल: पारितोषिकोऽस्मै देय इति निरचषुः ।
९७. प्रणेष्यमाणमिदं काव्यं श्रमप्रसूरेव भविष्यति नार्थकृत् ।
९८. प्रजनं नाम प्रजननं प्रथमगर्भग्रहणमुच्यते । तदेव चोपसर
इत्युक्तः सूत्रकारेण ।
९९. सत्यं लोकेऽस्मिन्प्रमेयशतांशमपि स्वानुभवेन ज्ञातुं न शक्यम् ।
१००. पावको लोहसङ्गेन मुद्गरैरभिहन्यत इत्याभाणकं न जात्व-
लीकं भवति ।
१०१. त्वदुक्तोर्थः सत्यमेव भाति, नासत्यम् ।
१०२. स्त्रीणां वेदेऽधिकारोऽस्ति न वेति विवादास्पदो विषयः ।
९५. निकष्यतेऽत्रेति निकषः । पुंसि संज्ञायामिति घः । वैदुष्यस्य निकषा
इति वैदुष्यनिकषा इति साधु स्यात् । वैदुष्यनिकषभूतानीत्येवं
व्यसनीयम् ।
९६. परितोषः प्रयोजनमस्येति पारितोषिकम् । प्रयोजनम् (५।१।
१०९) इति ठक् । यत् किञ्चित्परितोषफलकमभिप्रेतं न विशि-
ष्टार्थः कश्चिदिति सामान्ये नपुंसकमेव युज्यते ।
९७. श्रमं प्रसूत इत्यर्थे सत्सूद्विषेत्यादिना (३।२।६१) क्विपि कृदन्त-
त्वात्प्रातिपदिकत्वे ह्रस्वो नपुंसके प्रातिपदिकस्येति ह्रस्वत्वे
तुकि स्वमोर्नपुसकादिति सोर्लुकि 'श्रमप्रसुत्' इति साधु स्यात् ।
९८. प्रजन इति तु युक्तम् । युक्तत्वे चोक्तो हेतुः ।
९९. शततमोंश: शतांशः । अंशभागौ तु वण्टके इत्यंशः पुमान् ।
१००. आभाणकः पुंसि । तथा च लौकिकानामाभाणक इत्यादिषु तथा
दर्शनात् ।
१०१. सत्य एव भाति नासत्य इत्येवं वक्तव्यम् ।
१०२. प्रास्पदमित्यजहल्लिङ्ग नित्यं नपुंसकम् । विवादास्पदं विषय
इति निरवद्यम् । विषयशब्दः सुत्यजः ।१. प्रश्ने नियुक्ता इत्यर्थः । २. लोकोक्तिः ।