लिङ्गम् ३३१
८९. स्त्रीशूद्रद्विजबन्धूनां त्र न श्रुतिगोचरा । इति भारतमाख्यानं
कृपया मुनिना कृतम् ।। (भा० पु० १।१।२५)
९०. सर्वे पदाः हस्तिपदे निमग्नाः ।
९१. न साहसैकान्तरसानुवर्तिना न चाप्युपायोपहतान्तरात्मना । विभू-
तय: शक्यमवाप्तुमूर्जिताः ।
९२. विशेषणैर्यत् साकूतैरुक्तिः१ परिकरस्तु सः ।
९३. यो हि भूयस: शब्दार्थजातान्वेद, साधीयांस्तस्य वाचि भागः ।
९४. पूर्णिमायां सामुद्रा वीचयः कामपि शोभा पुष्णन्ति ।
८९. गौचरशब्दः पूंसि नियत इत्यसकृदुक्तमधस्ताम् । षष्ठीसमास-
श्चायं गोचरान्तः । तेन परवल्लिङ्गत्वाच्छ्रुतिगोचर इत्येव
न्याय्यमिति पाणिनीया: । भागवतकारस्त्वनेकत्र तन्त्रमाकुलयति ।
९०. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वित्यमरात्पदमिति नित्यं
नपुंसकम् । तेन सर्वे पादा हस्तिपादे निमग्ना इत्येवं परिवर्त्य
पठनीयम् । शालिनी वृत्तमिदम् ।
९१. शक्यमिति सामान्ये नपुंसकम् । तथा च वामनसूत्रम्-शक्यमिति
विलिङ्गवचनस्यापि कर्माभिधायां सामान्योपक्रमात् । एवं
विलिङ्गवचनस्य शक्यशब्दस्य वाक्यादावेव प्रयोग उपपत्तिमा-
न्भवतीति सुधीभिर्मनसि करणीयम् ।
९२. उद्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि
पर्यायेण तल्लिङ्गमुपाददत/इति कामचार इति कैयट.। प्रकृते
तु यच्छब्देन नैकतरस्यापि लिङ्गमुपादीयत इति यदिति
नपुंसकं चिन्त्यम् । कथं वान्तर्वाणय: पश्यन्ति ?
९३. जातिर्जातं च सामान्यमिति जातशब्दो नपुंसकम् । शब्दार्थ-
जातम् शब्दार्थजातानीति वा साधु स्यात् ।
९४. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरित्यमराद्वीचिः स्त्रीति सामु-
द्र्य इति स्त्रीलिङ्गं विशेषणं युक्तम् ।१. साभिप्रायै: ।