पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शब्दापशब्दविवेके ३३०


८१. यादृशी शीतला देवी तादृशो वाहनः खरः । ८२. निरर्थकाश्च जटा वर्धयित्वा तापसव्यञ्जनोपेता अमी भिक्षुका: कदाचारवृद्धये कल्पन्ते । ५३. आर्हताः१ खलु जगज्जीवो जीवकर्माणि बन्धश्चानादिरिति मन्यन्ते । ८४. शिखिपिच्छमयो मुकुट: कमपि शोभातिशयं जनयति रुक्मिणी- जानेः । ८५. यदा नभसि तारको दृश्यते तदाऽयं वाचं विसृजति२ । ८६. अत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसत इत्ययं भूभागस्त्रिदिव एव । ८७. अद्य सहस्रमब्दानि महमूदेन भरतभुव आक्रान्तायाः । ८८. ब्रह्मसूत्राण्युपनिषदो गीताश्चेत्यध्यात्मविद्या । इमा एव प्रस्थान- त्रयीत्युच्यते । (८।४।८) । न चेदमिह खरविशेषणं येन पुंसि प्रयोगः सङ्गतः स्यात् । ८२. प्रत्ययस्थात् कात्पूर्वस्येत्यादिना टापि कात्पूर्वस्यात इकारे निर- र्थिका इति साधु स्यात् । ८३. अनादि, अनादीनीति वा नपुंसकैकशेषे युज्यते वक्तुम् । ८४. अथ मुकुटं किरीटं पुन्नपुंसकम् इत्यमरान्मुकुटं नित्यं नपुंसकम् । ८५. तारक इत्यसुराख्यायामेव पुमान् । ऋक्षे तु तारका स्त्रियां तारकं च क्लीब इति प्रयोगचणाः । तथा च शाश्वतः-नक्षत्रे चाक्षिमध्ये च तारकं तारकापि चेति । लक्ष्यं च द्वित्रयोम्नि पुराणमौक्तिकमणिच्छायः स्थितं तारकै: (इति विद्धशाल- भजिकायाम्) । ८६. स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालया इत्यमरात् त्रिदिवः पुमान् । ८७. अब्दौ जीमूतवत्सरावित्यमरेऽब्दशब्दः पुमान् । ५८. इमान्येवेति वक्तव्यम् । नपुंसकशेषो हि युक्तः ।१. जैनाः । २-२. मौनं त्यजति ।