लिङ्गम् ३२९
७२. अप्रमोदात्पुन: पुंसः प्रजनं१ न प्रवर्तते । (मनु० ३।६१)
७३. मञ्चाः क्रोशन्तीत्यत्र तास्थ्योपाधिरवगन्तव्या ।
७४. सूर्यादीनि लोकान्तराणि सर्वे चैहिका भोग्यार्था भगवतैव विनि-
र्मिता इति सत्यम् ।
७५. तदिदं धर्मचक्रमनादिकालात्प्रवृत्तं प्रवर्तिष्यते च निरवधिम् ।
७६. ननु किं नाम मुक्तिः ? कैवल्यमिति साङ्ख्याः, आत्मोपलब्धि-
र्ब्रह्मभावो वेति वेदान्तिनः, अपवर्गो दुःखात्पृथग्भाव इति च
नैयायिका: ।
७७. ब्रह्म च जीवश्च भिन्नावेवेति मध्वादयः ।
७८. वत्स ! कपाटौ पिधायान्तस्तिष्ठ । प्रवाति वातो रजोविक्षिपः२ ।
७९. इदमस्य प्रमत्तगीत भङ्गमदवशं गतस्य ।
८०. रे रे पान्थ ! व्रतशुचेर्ममायं कङ्कणः प्रतिगृह्यताम् ।
७२. प्रजनशब्दो घञन्तः । जनिवघ्योश्चेति वृद्धयभावः । घञबन्त इति
पुंसि प्रयोगो युक्त: ।
७३. उपसर्गे घोः किरित्युपाधिशब्दः किप्रत्ययान्तः । घोः किप्रादितो
न्यत इत्यमरवचनात्पुंसि ।
७४. नपुंसकमनपुंसकेनेत्यादिना नपुंसकैकशेषे विनिर्मितानीत्येव
साधु ।
७५. विशेषणत्वे क्रियाविशेषणत्वे वा निरवधिशब्देन नपुंसकेन
भवितव्यम् । तेन स्वमोर्नपुंसकादिति स्वमोर्लुकि 'प्रवर्तिष्यते निर-
वधी'ति वक्तव्यम् ।
७६. किंलक्षणेत्यर्थविवक्षायां का नाम मुक्तिरिति वक्तव्यम् ।
७७. भिन्न एवेति नपुंसकैकशेषे साधु स्यात् ।
७८. कपाटमररं तुल्ये इत्यमरात्कपाटं क्लीबे ।
७९. भङ्गेति टाबन्तं स्त्रियाम् ।
५०. कङ्कणं करभूषणमिति कोषात्कङ्कणं क्लीबम् ।
८१. तादृशं वाहनं खर इत्येवं न्यासो निरवद्यः स्याम् । वाहनं नपुंस-
कम् । तथा च भगवतः सूत्रकारस्य प्रयोगः--वाहनमाहितात्१. गर्भाधानम् । २. विक्षिपतीति विक्षिपः । कः प्रत्ययः । रजसो विक्षिप इनि
षष्ठीसमासः ।