पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२८ शब्दापशब्दविवेके


६३. कस्य नाम न वन्द्या स्युर् मुनयः प्रशमायना: ? ६४. अहो अवश्यायसिक्ता इमे किसलया बालार्कोपरक्ताः कामप्य- भिख्यां पुष्यन्ति । ६५. श्वदृतिः क्षालिता तीर्थे कि शुद्धिमधिगच्छति ? ६६. भारतोपनिबद्धमिदं वृत्तान्तं सत्यं स्यान्नासत्यमिति नः प्रत्ययः । ६७. किं धर्मः किमु वाऽधर्म इति प्रश्नश्चिरन्तनः । ६८. बहूनि विघ्नानि कुर्वन्ति दुर्जना: सुजनक्रियासु । ६९. भवन्ति चात्रार्थे यजुषः प्रमाणम् । ७०. प्राणस्य निग्रहादिन्द्रियपूगं स्वायत्तं भवति । ७१. शास्त्रसहकारेण बुधजनोपासनया च सत्यसत्यौ विविञ्चीत । ६३. अयनमास्पदमित्यनर्थान्तरम् । अयनमिति नित्यं नपुंसकम् । प्रशमस्यायनं प्रशमायनम् । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति परवल्लिङ्गतयां नपुंसकमेव साधु । ६४. पल्लवोऽस्त्री किसलयमित्यमरात्किसलयं नपुंसकम् । तत्समा- नार्थकं पल्लवं द्वयोः । ६५. अमरे दृतिः पुमान् । दृति सीमन्त हरित इति पुंल्लिङ्गसङ्ग्रहे पाठात् । क्तिचि पुस्त्वं क्तिनि तु स्त्रीत्वम् । प्रायेण पुंसि प्रयोगः । ६६. वार्ता प्रवृत्तिवृत्तान्त उदन्त इत्यमराद् वृत्तान्तः पुमान् । ६७. धर्मः किम्, अधर्मश्च किम्, इत्येवमन्वये किमिति सामान्ये नपुं- सकं युक्तमेव । को धर्म: ? भूतदयेत्यादिषु किंलक्षणको धर्म इति विवक्षायां पुंसि किंशब्दः सूपपन्नः । ६८. विहन्यतास्मिन्निति विघ्नः । घञर्थे कविधानम् । विघ्नोऽन्तरायः प्रत्यूह इत्यमरात् पुंस्त्वम् । ६९. द्व्यच्कमसिसुसन्तमिति यजुः शब्दो नपुंसकम् । तेन यजूंषि प्रमाणमित्येवं वक्तव्यम् । ७०. पूगः क्रमुकवृन्दयोरिति नानार्थवर्गेऽमरः । इन्द्रियग्राम इति तु व्यवहारः । ७१. सत्यं चासत्यं चेति सत्यासत्ये । सामान्ये नपुंसकम् ।