लिङ्गम् ३२७
५५. रौद्रश्चतुष्पथ इत्यूषय आमनन्ति । तथाम्नाने च न दुष्करो
हेतुरुन्नेतुम् ।
५६. शुक्ले अपाङ्ग (नेत्रान्तौ अस्येति) शुक्लापाङ्गो मयूरः ।
५७. अयमपथः, एनेन चेद्यास्यसि पदे पदे स्खलिष्यसि ।
५८. गभीरमिदं जलाशयम् । नात्र बाहुकस्तरेत् ।
५९. प्राचीन ग्रामादाम्राः । (भाष्ये)
६०. अन्तरेण स्वार्थहानं परार्थं न सिध्यतीति प्रायिकम् ।
६१. कैरध्युषिता इमेऽन्तरा गेहका: । इमे हि मलवन्तो भवन्ति ।
६२. अत्र कियन्त्यक्षतान्यपेक्ष्यन्ते तिलकक्रियायाम् ।
५५. चतुर्णां पथां समाहारश्चतुष्पथम् । स नपुंसकम् इति वा, पथः
संख्याव्ययादेः क्लोबतेष्यते इति वा नपुंसकं साधु ।
५६. नाड्यपजनोपपदानि व्रणाङ्गपदानीति लिङ्गानुशासनात् अपाङ्ग
इत्येव साधु । अपाङ्गो नेत्रयोरन्ताविति चामरः ।
५७. अपथं नपुंसकम् इति निपातनादपथ इत्यपशब्दः । अपन्था इति
तु पुंसि साधु ।
५८. गभीरोऽयं जलाशयः। आशेरते जलोन्यत्रेति जलाशयः । पुंसि
संज्ञायां घः प्रायेण (३।३।१५८) इति घः । घाजन्त इति पुंस्त्वम् ।
जलानामाशय इति षष्ठीसमासः ।
५९. प्राचीनमिति सामान्ये नपुंसकम् । कंचिद्विशेषमविवक्षित्वा नपुं-
सकेनोपक्रमः । शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिन
(रा० ४।२८।८) इत्यत्र शक्यमितिवत् ।
६०. अर्थशब्दो नित्यं पुमान् । अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्य-
मरः ।
६१. गेहं गेहकमिति च नित्यं नपुंसकम् । अतोऽन्तराणि गेहकानीति
वक्तव्यम् । गृहशब्दस्य तु बहुत्वे प्रयोगः प्रसिद्धः ।
६२. लाजा अक्षता इत्यादयः पुंभूम्नि प्रयुज्यन्ते । तेन कियन्तोऽक्षता
इति वक्तव्यम् ।१. बाहुभ्यां तरतीति ।