पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२६ शब्दापशब्दविवेके


४७. अयं विपथः, नैनेन मन्तव्यं गन्तुमर्हसि । ४८. क्रव्यादस्यास्य तालुस्तीक्ष्णेनास्थ्ना विद्ध इति वराक: परं दुःखा- यते । ४९. द्रव्यमियं१ ब्राह्मणी । धन्यावस्या मातरपितरौ । ५०. जीर्णेयं छदिः पिपतिषति नूनम् । ५१. कुकूलं२ विरच्यताम् । संस्करिष्याम्यनेनात्मनो देहम् । ५२. यो हि मित्राणि वा बन्धून्वा नित्यं याचते स बहुतृणो३ नरः । ५३. कस्येदं कुटीरं स्यात् । अपि नामास्य स्वामी वासं नो दास्यत्येक- रात्रम् ? ५४. इयं कुतूस्त्रिंशत्सेटकमितं तैलं संभवति । इदं कुतुपं तु पञ्दश- सेटकमितम् । ४७. पथः संख्याव्ययादेः क्लीबतेष्यत इति विपथमित्येव साधु । ४८. तालु तु काकुदम् इत्यमरात्तालु नपुंसकम् । ४९. द्रव्यं भव्य इति भव्यार्थे द्रव्यशब्दो निपातित: । स चाजहल्लिङ्ग इति ब्राह्मणीत्यनेन सामानाधिकरण्येऽपि नपुंसकम् । द्रव्यं भव्ये गुणाश्रये इति चामरः । अत्र भव्ये वाच्यलिङ्गकमिति नोक्तम् । उभयस्मिन्नर्थे समानलिङ्गता । ५०. छदिः स्त्रियामेवेति लिङ्गानुशासनात्स्त्रीत्वं साधु । कोषान्तरे तु छदिर्नपुंसकम् । द्व्यकमसिसुसन्तमिति वचनात् । छन्दसि तु च्छदि नियमेन नपुंसकम् । ५१. कुकूलं शङ्कुभि: कोणे श्वभ्रे ना तु तुषानले इत्यमरात्तुषानल- वचनः कुकूलशब्दः पुंसि । ५२. ईषदसमाप्तं तृणं बहुतृणम् । विभाषा सुपो बहुच् पुरस्तात्तु इति बहुच् । स्थादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गके इति वचनात् बहुत्पूर्वस्य तृणशब्दस्य प्रकृतिलिङ्गता । तेन बहुतृणं नर इत्येव । ५३. कुटीरः कुटीरमित्युभयं साधु । ५४. ह्रस्वा कुतूः कुतुपः । अमरे कुतुपः पुमानिति पाठः । १. भव्या । २. तुषानलः । ३. तृणप्रायः । बहुच्प्रत्ययः ।