पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिङ्गम् ३२५


३९. उत्तरस्याः पश्चिमायाश्चान्तराला दिगुत्तरपश्चिमोच्यते । ४०. धनधान्येन समृद्धिमदिदं जनपदम् इति सुकृतिनो जनपदिनः । ४१. नैत्यशब्दिका वैयाकरणाः कार्यशब्दिकाश्च नैयायिकाः । इतर- त्रापि भिद्यन्ते सिद्धान्तानि विमर्शकानाम् । ४२. मयि दूरिभूते त्वयैव मे जनन्या योगक्षेममवेक्षणीयम् । ४३. नाको मे स्यान्नरकं मा भूदिति सर्वस्य हृदि स्थितः कामः । ४४. अस्ति कश्चित्पुस्तको यमवलोकयेयं कालं च साधु नयेयम् ? ४५. इह ग्रामे क्षारवारयः सर्वेऽप्युदपानास्तेनेतो दूराद् ग्रामान्तरादाह- रन्ति पानीयं ग्रामीणाः । ४६. अत्र सद्मनि किमपि गवाक्षं नास्तीति नेदं वासार्हम् ।

३९. अन्तरालमिति नित्यं नपुंसकम् । अभ्यन्तरं त्वन्तरालमित्यमरः । ४० नाड्यपजनोपपदानि व्रणाङ्गपदानीति लिङ्गानुशासनस्थसूत्रेण जनपदशब्दः पुमान् । ४१. सिद्धान्त इति पुंसि नियतम् तथा चामर:----समौ सिद्धान्तरा- द्धान्ताविति । केवलोऽन्तशब्दस्तूभयलिङ्गः, प्रयोगस्तु प्रायेण पुंसि । ४२. कुशलं क्षेममस्त्रियामित्यमरात्क्षेमशब्दः पुंनपुंसकम् । तथापि योगपूर्वोऽयं भूत्यर्थे वर्तमानः प्रायः पुंसि दृष्ट इति योगक्षेमोऽवे- क्षणीय इत्येव श्रेयः । तत्र योगसहितः क्षेमो योगक्षेमः, योगपूर्वो वा क्षेमो योगक्षेम इति विग्रहः । ४३. स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियामित्मरान्नरकशब्द: पुमान् । ४४. पुस्तकशब्दः पुन्नपुंसकम् । अर्धर्चादिषु पाठात् । पञ्चतन्त्रे कामसूत्रेषु वात्स्यायनीयेषु नागरकवृत्ते च पुंसि प्रयोगदर्शनात् । ४५. पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वेति कोषादुदपानः पुंसि साधुः । पक्षे नपुंसकम् । ४६. वातायनं गवाक्ष इत्यमरे पुंस्त्वनिर्देशात्कोपि गवाक्ष इत्येवं वक्त- व्यम् ।