पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२४ शब्दापशब्दविवेके


३१. क्लिश्यतेऽसौ नाडीव्रणेन । नेदमद्यापि संरोहति । ३२. स्वरपि मे न मनोहर उत्त्रसत्पृषतलोचनया१ रहितस्त्वया । ३३. अमित्रा मित्ररूपेयं पाणिगृहीती मम । (श्रीरामायणे) ३४. इमानि कन्दराणि श्वापदाकुलानीति भयं जनयन्ति यात्रिकाणाम् । ३५. जर्जरिता गृहस्थूणेति पित्सति पटलम्२ । ३६. अपीयं खे सम्पतन्ती बलाकपङि्क्तदृष्टेस्ते गोचरा ? ३७. अहो रमणीया अस्य बर्हिणस्य३ बर्हाः४ । प्रत्युप्यत५ इवात्र दृष्टि: । ३८. वर्तमाना हिन्दवः सभ्यानामार्याणां सन्तानानि सन्तीति लोकस्या- हता भवन्ति भूयसा । ३१. नाड्यपजनोपपदानि व्रणाङ्गपदानीति पंल्लिङ्गाधिकारे लिङ्गानुशासने पठितम् । तेन व्रणशब्दस्य पुन्नपुंसकत्वेपि नाडीव्रणस्य पुंस्त्वमेव । ३२. स्वरिति स्वर्गपर्यायवचनम् । स्वरादिनिपातमव्ययमित्यव्ययसंज्ञा । क्रियाव्ययानां भेदकानि क्लीबानि भवन्तीति मनोहरम्, रहित- मिति च वक्तव्यम् । ३३. मित्रशब्दो नपुंसकम् । अमित्रशब्दस्तु स्त्रीपुंसयोर्यथाविवक्षम् इति प्रकृते न किञ्चिदाक्षेप्यम् । ३४. दरी तु कन्दरो वा स्त्रीति कोषप्रामाण्यात्कन्दरशब्द: पुल्लिङ्गः । तेन इमे कन्दरा ईमाः कन्दरा वेति वक्तव्यम् । ३५. स्थूणोर्णे नपुंसके चेति सूत्रेण केवले स्थूणोर्णे स्त्रियां क्लीबे च । गृहशशपूर्वे तु नियमेन नपुंसके । तथा च सूत्रम् -- गृहश- शाभ्यां क्लीबे इति । तेन जर्जरितं गृहस्थूणमित्येव साधु । ३६. गोचरसंचरेत्यादिना गोचरशब्दो घान्तो निपातितः । घाजन्त इति चायं नैयत्येन पुमान् । गोचर इत्येव साधु । दृष्टेर्गोचरो विषयः । ३७. पिच्छबर्हे नपुंसके इत्यमराद्बर्हं नपुंसकम् । ३८. सन्तान इति समुपसृष्टात्तनोतेर्घञि रूपम् । तेन पुंस्त्वं व्यवस्थि- तम् । सन्तान इति कुलनामधेयम् अपत्येऽपि वर्तते । १. पृषतलोचना हरिणाक्षी । २. छदिः । ३. बर्हिणः, मयूरस्य । ४, पिच्छानि । ५. सज्जति ।