लिङ्गम् ३२३
२३. इमाः पुष्करिण्य इमानि च सरोवराणि कस्य मुदे न ?
२४. वल्मीकं नाम पिपीलिकाभिरुत्क्षिप्तं मृदां पुञ्जम् ।
२५. बृहदिदं राष्ट्रियं सङ्घमिति सर्व एनत् सन्नमन्ति ।
२६. सस्थाढ्या ग्रामाः समृद्धिमन्ति च नगराणि प्रसृतश्च वरिणजां
व्यवहार एतद्देशवैभवस्य व्याख्यातारः ।
२७. योऽवलेषु परकृता बलात्कृतीस्तूष्णीं सहते स सत्त्वहीनो नपुंसकः ।
२८. येन केन प्रकारेण सर्वस्य जन्तुनः सन्तोषं जनयेत् ।
२९. धनेन मानस्य विनिमयो न वरम् ।
३०. दुःखाकराभिगृहकृत्याभिरहरहः क्लिश्यन्ते गृहिणो निविद्यन्ते च ।
२३. देवावृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये इत्यमराद्वरशब्द:
श्रेष्ठवचनस्त्रिलिङ्ग: । मयूरव्यंसकादित्वाद् विशेषशणस्य
परनिपात: । वरस्य त्रिलिङ्गत्वेपि पुंस्येवायं सरोवरशब्द:
प्रयुज्यते लोकाश्रयत्वाल्लिङ्गस्य ।
२४. वल्मीकं पुन्नपुंसकम् । पुञ्जशब्दस्तु नियतं पुमान् । तथा
चामरः-स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् इति ।
२५. सङ्घोद्घौ गरणप्रशंसयोरिति सङ्घशब्दोप्प्रत्ययान्तः । घञबन्त
इति पुंसि रूढः । तेन बृहन्नयं राष्ट्रियः सङ्घ इति सर्व एनं
संनमन्तीत्येवं विपरिणमय्य वक्तव्यं सर्वदोषापहतये ।
२६. नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्यामिति नपुंसकैकशेषे व्या-
ख्यातृणीत्येव साधु ।
२७. पुमान् स्त्री नपुंसकमित्येवं प्रायो लिङ्गनिर्देशो दृश्यते । सूत्र-
कारप्रयोगश्च –स नपुंसकम् (२।४।१५) इति । भाष्यकार-
प्रयोगात्तु पुंस्यपि साधु ।
२८. प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिण इत्यमराज्जन्तुशब्दः
पुमान् । तथा च सूत्रकारप्रयोग: --क्षुद्रजन्तव (२।४।८) इति ।
२९. क्लीबं मनाक्प्रिये इत्यमरोक्तेर्वरम् इति साधु स्यात् । न चेह
मनाक् प्रिय इत्यर्थः।
३०. दुःखाकरैरित्येव साधु । उक्तोत्र हेतुः पूर्वत्र ।