३२२ शब्दापशब्दविवेके
१४. पञ्चालास्तव पश्चिमेन त इमे वीरा गिरां भाजना: । बाल-
रामायणे)
१५. भूमिरियं सर्वेषामाधेयानामाधाराऽतो महदावपनमुच्यते ।
१६. नायं सार:२, स्वयं रथेन यासि, उपाध्यायं च पदातिं गमयसि ।
१७. केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः । (भर्तृ० १)।
१८. वर्धनं वाऽथ सम्मानं खलानां प्रीतये कुत: ?
१९. देहमनसी दुःखाश्रये न त्वात्मा ।
२०. कण्टकं मे पादे लग्नम् । तदुद्धर ।
२१. वत्स! सद्य आपणं याहि । आम्रांश्च स्वादीयसः कियतोप्याहर ।
२२. द्वौ द्वौ चत्वारो भवन्ति ।
१४. गिरां भाजनं भाजनानीति वा वक्तव्यम् । पदमास्पदं भाजनमित्या-
दयोऽजहल्लिङ्गाः शब्दा वाङ्मये प्रसिद्धाः। तेन लेखकप्रमा-
दोऽयं न तु नाटककारस्य स्खलितम् ।
१५. आधारशब्दो घञन्तः अवहाराधारावायानामुपसंख्यानम्
इत्यौपसंख्यानिकोऽत्र घञ् । घजबन्त इति लिङ्गानुशासनादयं
पुंसि नियतः । तेनाधारेत्यपशब्दः ।
१६. सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिष्वित्यमरान्याय्येर्थे
सारशब्दो नपुंसकम् । तेन नेदं सारमिति ब्रूयात् ।
१७. केयूरमङ्गदं तुल्ये इत्यमरात् केयूरशब्दो नपुंसकम् । तथा च
पाठान्तरम् - 'केयूराणि न भूषयन्ति पुरुषमिति । नाहं जानामि
केयूरे (४।६।२२) इति च श्रीरामायणे प्रयोगः ।
१८. सम्मानशब्दो मन्यतेर्घञि व्युत्पाद्यते । तेन सम्मान इत्येव साधु ।
१९. दुःखाश्रय इति पुंस्येकत्वे च साधु । उक्तोत्र हेतुः पूर्वत्र ।
२०. पुंनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टका इत्यमरप्रामाण्यात्कण्ट-
कमित्यपि साधु । पुंसि तु प्रायिकः प्रयोगः ।
२१. प्रकृत आम्रफलमभिप्रेतमित्याम्राणीति वक्तव्यम् । फले लुक्
(४।३।१९३) इदि विकारावयवप्रत्ययस्य मयट: फले लुकि
लोकान्नपुंसकत्वम् ।
२२. सामान्ये नपुंसकमिति वचनाद् द्वे द्वे चत्वारि भवन्तीत्येव साधु ।
-१. न्याय्यम् ।