पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिङ्गम् ३२१


७. अतीते महायुधि लक्षशो योधाश्चायोधाश्च विगतविग्रहा अभूवन् । ८. पुराणीयं कलिरेतद्वंशजानाम् । नैषा शक्या शमयितुम् । ६. दुर्भेदा इमा ग्रन्थग्रन्थयः । सर्वतन्त्रस्वतन्त्र एव कश्चिद् एतद्वि- भेदनायालं स्यात् । १०. धनधान्यसमृद्धायामस्यां नीवृति१ बह्व्यः प्रजा दुर्विधा:२ सन्तीति किमेतत् ? ११. प्रतिष्टम्भनिः स्पन्दीकृता सव्या मे बाहुः । १२. नेमा इषवः शिखण्डिनः । १३. कियत्यो वितस्तयो वरिमास्य३ पटस्य ? ७. समित्याजिसमिद्युध इति स्त्रीलिङ्गो युच्छब्दः । तेनातीतायां महायुधीत्येवं वक्तव्यम् । ८. सम्प्रहाराभिसम्पातकलिसंस्फोटसंयुगा इत्यमरे कलिः पुंसि पठित: । तेन पुराणोऽयं कलिः । नैष शक्यः शमयितुमित्येवं विपरिणमनीयम् । ६. ग्रन्थिर्ना पर्वपरुषी इत्यमराद्ग्रन्थिशब्दः पुमान् । १०. नीवज्जनपदी देशे इति जनपदशब्देन सहोक्तौ नीवृच्छब्दः पुमान् तेन धनधान्यसमृद्धेऽस्मिन्निति वक्तव्यम् । ११. द्वौ परौ द्वयोः । भुजबाहू प्रवेष्टो दोरित्यमराद् बाहुः स्त्रियामपि । तेनवृसर्वमनवद्यम् । १२. इषुबाहू स्त्रियां चेति लिङ्गानुशासनाद् इषुशब्दः स्त्रीपुंसयोः । तेन इमा इति स्त्रीलिङ्गनिर्देशो न दुष्यति । छन्दसि च स्त्री- लिङ्गता विशेषतः प्रसिद्धा । तद्यथा याश्च ते हस्त इषवः परा ता भगवो वप । (यजुः १६।९) १३. अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिदिशाङ्गुल इत्यमराद् वितस्ति- शब्द: पुंसि नियत: । तेन कियन्तो वितस्तय इत्येव साधु । ..१. जनपदे । २. दुर्गता दरिद्राः । ३. विस्तारः ।