अथ लिङ्गेषु विवेच्यानि
१. अयं पद्मः किम् ? न खलु । महीतलसंचार्येषः, स च सरो-
विहारी ।
२. शुचौ१ शुष्यन्ति पल्वला: ।
३. वित्तं खलु समस्तकार्याकरम् ।
४. महानयमाजिर्न२ जाने कदाऽवसास्यति ।
५. अयं ते धनुः । तूणीरं क्व निहितमिति नाहं वेद ।
६. क्षमे ! सत्यं सर्वसहाऽसि यदतिनृशंसस्य जनस्यापि समाश्र-
यासि ।
१. यद्यपि वा पुंसि पद्ममित्यमरः पाक्षिकं पुंस्त्वमभ्यनुजानाति
तथापि पुंस्त्वे कविभिरप्रयुक्तत्वादालङ्कारिकाणां चासम्मतत्वा-
त्पद्म इत्यपप्रयोग एव ।
२. वेशन्तः पल्वलं चाल्पसर इत्यमरात्पल्वलशब्दो नपुंसकम् ।
३. पुंसि संज्ञायां घः प्रायेणेति धान्त आकरशब्दः पुंसि व्युत्पादितः ।
सर्वरत्नानामाकर इति षष्ठीसमासोऽयं न बहुव्रीहिः । तेन सर्व-
रत्नाकर इति ब्रूयात् ।
४. आजिः स्त्रियाम् इति लिङ्गानुशासनान्महतीयमाजिरिति वक्त-
व्यम् । छन्दसि त्वाजिः पुमान् ।
५. अथास्त्रियौ धनुश्चापावित्यमराद्धनुः शब्द: क्लीबे पुंसि च ।
तेनायमिति सर्वनाम्ना निर्देशो नानुपपन्नः । तूणीरशब्दश्च नित्यं
पुमान् । तूणोपासङ्गातूणीरनिषङ्गा इत्यमरः । तेन तूणीरः क्व
निहित इति वक्तव्यम् ।
६. समाश्रयशब्द एरच् इत्यजन्तः । घाजन्तश्चेति लिङ्गानुशासनात्
पुंसि प्रयोगो युक्तः । समाश्रयोऽसीति वक्तव्यम् ।
..
।१. आषाढे २. युद्धम्