पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समासान्ताः ३१९


६७. कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः (भा० सभा० २६।१६) । ६७. कुन्तीमातेति तु पाणिनीया रूपमिच्छन्ति । मातृणां मातच् पुत्रार्थमर्हते इति वार्तिकेन कपोऽभवादो मातजादेश इष्यते । प्रकृते तु समासान्त एव न कृतः । सम्बोधनादन्यत्र तु मातज्मातृ- कमातृषु वा इति वार्तिकबलात् कविकल्पो नासाधुः ।इति समासान्तविवेचनम् ।