पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१८. शब्दापशब्दविवेके


६२. शूर्पान् शमीपर्णकान् साज्यादिसामग्रिकान् (मोह० ४।२३) । ६३. कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ सरशार्दूल कर्तव्यं देवमाह्निकम् ।। (रा० १।२३।२) । ६४. महारात्र इति रात्रेः पश्चिमो यामो भवति । शब्दस्तु न सिध्यति । ६५. विषयाकृष्यामारणा हि तिष्ठन्ति सुपथे कथम् (कथा० २०।२९२) । ६६. श्रुतिपथि विचरामः सत्यगामुच्चरामः । (हनुमत्कृतायां खण्ड- प्रशस्तौ रामावतारे)। - करिणिरिति वक्तव्यम् । असति ह्रस्वे ङीबन्तात् करिणी शब्दाद् हल्ङ्याब् इति सुपो लुक् कुतो न । सर्वथा हेयोऽयं प्रयोग इति स्थितम् । ६२. साज्यादि सामग्रिकान् इत्यत्र नवृतश्चेति कप् समासान्तः स्थाने । ह्रस्वस्त्वस्थाने । न कपीति निषेधात् । गोस्त्रियोरुपसर्जनस्येत्यने- नापि ह्रस्वो नार्हति भवितुम् । समासान्तो ह्य तरपदावयवो भवति । तेन कबन्तमुत्तरपदम्, अत उपसर्जनस्त्रीप्रत्ययान्तान्तं प्रातिपदिकं नास्तीति हस्वस्याऽप्राप्तिः । ६३. नित्यमसिच् प्रजामेधयोः(१।४।१२२) इति बहुव्रीहावसिचं समासान्त शास्ति प्रकृते तु कौसल्यासुप्रजा इति तत्पुरुषः, तेनासिचोऽभावे सम्बुद्धौ कौसल्यासुप्रजे (राम) इति रूपमिष्टम् । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति समासस्य स्त्रीत्वम्, 'विशेष्ये पुंल्लिङ्गपि । ६४. महारात्र इत्यत्राच्समासान्तो दुर्लभः । सति समासान्ते रात्ररूपे निष्पन्ने पुंस्त्वं सुस्थम् । ६५. सुपथे इत्यपाणिनीयम् । न पूजनादिति (५१४१६६) समासान्त- निषेधात् । ६६. श्रुतिपथि इत्यत्र ऋक्पूरब्धःपथामानक्षे (५।४।७४) इति समा- सान्तोऽकारो विहितः, स न कृत इति दोषः । अनित्याः समा- सान्ता इति न शरणीकरणीयम् । यत्र तत्र शरणीक्रियमारणे तस्मिन्वाग्भ्रंशोऽनियन्त्रितो भविष्यति ।