समासान्ताः ३१७
५६. कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी । पञ्चभर्त्री न
पाञ्चाली यो जानाति स पण्डितः ।।
५७. सौमित्रिश्च बद्धलक्ष्यः कर्णान्ताकृष्टमौर्विस्तिष्ठति प्रतिभया-
कारः ।
५८. सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु (शिशु० ७।४२) । सरज-
समपहाय केतकीनाम् (किरात०) ।
५९. प्रियमधुरसनानि षट्पदाली मलिनयति स्म नीलबन्धनानि (कि०
१०।२६)।
६०. समरात्रिन्दिवे काले विषुवद् विषुवं च तत् (अमरे)।
६१. आसीदेको वशितकरिणीर्गन्धिनामा गजेन्द्रः (मोह० २।१३) ।
५६. पञ्चभर्तृकेति तु युज्यते । नद्यृतश्चेति कपा समासान्तेन
भवितव्यम् ।
५७. कर्णान्ताकृष्टमौर्विरिति दुष्यति । परेण समासान्तेन कपा उप-
सर्जनह्रस्वत्वं बाध्यते । सति च कपि उपसर्जनस्त्रीप्रत्ययान्तान्तस्य
प्रातिपदिकस्याभावाद् ह्रस्वत्वाप्रसङ्गः । तेन कर्णान्ताकृष्टमौर्वीक
इत्येव साधु ।
५८. अचतुरविचतुरेत्यादिना सूत्रेण सरजसमित्यच्समासान्तान्तं निपा-
तितम् । साकल्येऽव्ययीभावोऽयमिति च वृत्त्यादिषु स्थितम् । कव-
यस्तु बहुव्रीहिमभिमत्य प्रयुञ्जते तदेषां निरङ्कुशत्वमात्रम् ।
५९. 'प्रियमधुः' इत्यस्य स्थाने प्रियमधुकेति साधु स्यात् । उर: प्रभृतिषु
मधुशब्दः पठ्यते, तेन नित्येन कपा समासान्तेन भवितव्यम् ।
६०. रात्रौ च दिवा चेति रात्रिन्दिवम् । अचतुरविचतुरेत्यादिनाऽच्स-
मासान्तान्तं निपात्यते । दिवा इति सप्तम्यर्थवृत्त्यव्ययम् । निपा-
तनादेव समासः । समं रात्रिन्दिवं यत्र काले स कालः समरा-
त्रिन्दिवः । वृत्तौ प्रातिपदिकार्थमात्रता शब्दशक्तिस्वाभाव्यात् ।
तेन समशब्देन सामानाधिकरण्योपपत्तिः ।
६१. वशितकरिणी गन्धिनामा गजेन्द्रः । अत्र वशितकरिणीरिति
बहुव्रीहिराश्रितः। गजेन्द्र इत्यन्यपदार्थः । परं नैतद्रूपं सिध्यति ।
नद्यृतश्चेति कपा समासान्तेन भवितव्यम् । अनित्याः समासान्ता
इति चेद् गोस्त्रियोरुपसर्जनस्येति ह्रस्वः प्राप्नोति, वशित-