पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१६ शब्दापशब्दविवेके

५१. वाली हेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा । ५२. वरदः करोतु सुप्रातमह्नामयं हि नायकः । ५३. परमस्वधर्मः परमस्वधर्मेति च साधुनी शब्दरूपे । तत्र समासा- न्तसत्त्वासत्वयोर्हर्तुं चेद् वेत्थ नूनं शाब्दिकोऽसि । ५४. पशवश्च मृगाश्चैव व्यालाश्चोभयतोदत: (मनु० १।४३) । ५५. सामध्वनावृग्यजुषी नाधीयीत कदाचन (मनु० ४।१२३) । ५१. दक्षिणेर्मा इतीह लुब्धयोगेऽसत्यपि हिंसामात्रे प्रयुक्तम् । दक्षिणे इमं वरणो धातो यस्य सः । तच्चिन्त्यम् । ५२. सुप्रातसुश्वेत्यादिना सूत्रेण सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्य- यान्ता निपात्यन्ते । शोभनं प्रातरस्येति सुप्रातः । प्रातः शब्द- स्याधिकरणप्रधानत्वात्सामानाधिकरण्याभावात्प्रातस्तनं 'कर्म प्रातःशब्देन लक्ष्यत इति हरदत्तः । तत्पुरुषे शोभनं प्रातरित्यर्थे तु सुप्रात इति न सिध्यति । ५३. स्वश्चासौ धर्मश्चेति कर्मधारयः । पश्चाद् परमशब्देन बहुव्रीहिः । अत्र स्वधर्मशब्द उत्तरपदं न धर्मशब्दः, तेन समासान्तो न । परम- श्चासौ स्वश्चेति कर्मधारयपूर्वपदात्परमस्वशब्दात्परस्य धर्मशब्द- स्य तु स्यादेव । बहुव्रीहिणा पूर्वपदाक्षेपे केवलादिति पूर्वपदविशे- षणमिति दीक्षितादयो नव्याः । केवलशब्दनैकं पदमुच्यतेऽखण्डं सखण्डं वा समस्तम् । तेन निवृत्तिधर्मा स्थानी भवति, अनुच्छित्ति- धर्मा वा अरेऽयमात्मेत्यादिषु निवृत्तिधर्मा इत्यत्र, अनुच्छित्ति- धर्मा इत्यत्र चानिच् सिद्धो भवति । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ तु न भवति । केवलात्पदाद्यो धर्मशब्दस्तदन्ता- दनिच्, न तु यः पदसमुदायादित्यर्थः । ५४. उभयतोदतः इत्यस्योभयंतोदन्ता इत्यर्थः । पद्दन्नोमास् इत्यनेन शास्त्रेण शसादिषु दन्तस्य ददादेशविधानादिहादेशो दुर्लभः । दन्तशब्दसमानार्थो दच्छब्दः प्रकृत्यन्तरमस्तीति कुल्लूकः । ५५. अचतुरविचतुरेत्यादिना सूत्रेण ऋग्यजुषम् इत्यच्प्रत्ययान्तं निपा- तितम् । ऋक् च यजुश्चेति विग्रहः । वाचि स्वतन्त्रा महर्षयः ।