समासान्ताः ३१५
४४. एकपादा द्विपादाश्च नर्दन्तो युद्धकाङि् क्षणः (हरि० १।४३।२५) ।
४५. निःश्रेयस्कः पुरुष इत्यत्र (अच्प्रत्ययो) न भवति, (स हि निःश्रेयसे
तत्पुरुषे निपातितः ) (काशिका ५।४।७७) ।
४६. वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः (भा० पु०
१२।१३।१) ।
४७. अयं प्रजाः पुत्रवत्पालयतीति सुराजा, अयं च तासु प्रमत्तः
केवलं षष्ठांशभुगिति कुराजा ।
४८. नगरवर्णनमपि सिद्धगवीनां कवीनां प्रतिभापरीक्षाया निकषो-
पलो गण्यते ।
४९. प्रथमं विलीढमधवः पिबन्ति कटु भेषजम् ।
५०. केचित्तत्तदर्थार्जनाय नक्तंदिवा यतन्ते न च लभन्ते ।
४४. संख्यासुपूर्वस्येति पादान्तलोपः समासान्तो विहितः, स न कृत
इति दोष इति पाणिनीयाः । एकपादो द्विपादश्चेत्युक्ते पाणि-
नीयशासनानुरोधः कृतः स्यात् ।
४५. निःश्रेयस्कः (पुरुषः) इति बहुव्रीहौ न सिध्यति । ईयसश्च (५।४।
१५६) इति कपो निषेधात् । स्खलनधर्मारणो मनुष्या इति वृत्तिका-
रेणापि स्खलितम् ।
४६. द्वन्द्वाच्चुदषहान्तात् समाहारे इति समाहारे टज्विधेरत्र टज्
दुर्लभः । तेन साङ्गपदक्रमोपनिषद्भिरित्येव शास्त्रस्य सम्मतं
रूपम् ।
४७. शोभनो राजा सुराजा । न पूजनादिति समासान्तनिषेधः ।
कुत्सितो राजा कुराजः । कुगतिप्रादय इति समासः । राजाहः-
सखिभ्यष्टच् इति टच् ।
४८. सिद्धा गावो वाचो येषां ते सिद्धगवः, तेषां सिद्धगूनाम् । गोस्त्रि-
रुपसर्जनस्येति ह्रस्वः । गोरतद्धितलुकीति गोशब्दान्तात्तत्पुरुषाट्
टचं विधत्ते । तेन प्रकृते टचोऽप्रसङ्गः ।
४९. मधुशब्दः उर:प्रभृतिषु पठितस्तेन उरःप्रभृतिषु कप् इत्यनेन
नित्यः कब् इष्यते ।
५०. 'नक्तं दिवा' इति चेदसमासो न कश्चिद् दोषः । समासे तु अच-
तुरविचतुरेत्यादिना सूत्रेणाप्रत्ययान्तं नक्तन्दिवम् इति निपाति-
तम् ।