३१४. शब्दापशब्दकिवेके
३६. धावकादिभिः कविभिः स्वराज्ञो नाम्ना प्रकाशितानि काव्यानीति
प्रथते प्रवादः ।
३७. सर्वाहं यत्किमपि गृहकृत्यं सम्पादयन्ती सा परं निर्वृणोति ।
३८. गणरात्रं निशा बह् व्यः । (अमरे १।३।६)
३९. पुरा किल सुकर्मार्जितशान्तिसम्पदं भारतं वर्षं लोकस्य स्पृहणीयं
बभूव ।
४०. धर्मस्यैकपादेवाऽवशिष्टः कलावित्याहुः ।
४१. अज्ञानान्धतमसि दन्द्रम्यमाणा१ न जातु परं पुमर्थं साधयन्ति ।
४२. इदानीमर्धरात्रिर्गतेति विरमामोऽध्ययनात् ।
४३. न गर्दभा वाजिधुरं वहन्ति ।
३६. स्वस्य राजा स्वराज तस्य स्वराजस्य इति भवितव्यम् । राजाहः-
सखिभ्यष्टच् ।
३७. अह्नोऽह्न एतेभ्य इति सर्वाह्णमिति युक्तम् । अह्नोऽदन्तादिति
णत्वम्।
३८. 'बहुगुणवतुडति संख्या' इति गणशब्दः संख्या । गणानां रात्रीणां
समाहारो गणरात्रम् । अहःसर्वैकदेशेत्यादिनाऽच्समासान्तः । सूत्रे
पठितेन चेन पूर्वसूत्रादव्ययसङख्ये अनुकृष्येते । संख्यापूर्वं रात्रं
क्लीबमिति क्लीबता ।
३६. शान्तिश्च सम्पच्चेति समाहारे द्वन्द्वाच्चुदषहान्तात्समाहारे इति
टचि शान्तिसम्पदमिति रूपम् । पश्चाद् बहुव्रीहिः । सुकर्मार्जितं
शान्तिसम्पदं येन तत् । अहो नेह किञ्चिदनवदातम् ।
४०. संख्यासुपूर्वस्य पादशब्दस्य बहुव्रीहावन्तलोपो विधीयते । तेन
प्रकृते एकपाद:, एकः पाद इति वा वक्तव्यम् ।
४१. अवसमन्धेभ्यस्तमस इत्यचि समासान्तेऽज्ञानान्धतमसे इत्येव
साधु ।
४२. अर्धरात्रो गत इत्येवं न्यसनीयम् । अहःसर्वैकदे शेत्यादिनाऽच्
समासान्तः । रात्राह्नाहाः पुंसीति पुंस्त्वम् ।
४३. ऋक्पूरब्धू: पथामानक्षे इत्यकारे समासान्ते स्त्रियां टापि वाजि-
धुरामिति वक्तव्यम् ।१. जङ्गम्यमानाः । बम्भ्रम्यमाणा इत्यर्थः ।