समासान्ताः ३१३
२९. अद्यत्वे यश्चिरं जीवति स वर्षशतं जीवति । इदमेव च पुरुषा-
युरित्यामनन्त्यृषयः ।
३०. ईश्वर एकं विपथेन नयत्यपरं सुपथेन । तेन भगवतोऽनुग्रहः
सततमेषणीयः ।
३१. नहि रात्रिन्दिवा प्रयस्यन्तः समे१ समं समृद्धमनोरथा भवन्ति ।
३२. मध्ये दिवं तपति दिनकरः । महांश्च नः क्लमः । तेनेहैव विश्रा-
म्यामः ।
३३. यत्र समेधितमेधसोऽपि विमुह्यन्ति तत्र हता दुर्मेधस इति किमु
वाच्यम् ।
३४. आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी । (अमरे)
३५. वरतनु ! सम्प्रवदन्ति कुक्कुटाः ।
२६. अचतुरविचतुरेत्यादिना सूत्रेण पुरुषायुषमित्यच्प्रत्ययान्तं निपाति-
तम्, तेन पुरुषायुरित्यसाध्वेव ।
३०. न पूजनात् (२।४।६९) इति समासान्तनिषेधे 'सुपथा' इति
तृतीयान्तं स्यात्
३१. अचतुरविचतुरेत्यादिना रात्रिन्दिवमित्यच्समासान्तान्तं निपाति-
तम्, । तेन रात्रिन्दिवेति प्रमाद: ।
३२ अदन्तोऽपि दिवशब्दोऽस्ति दिवौकसि दर्शनात् । तेन षष्ठयन्तेन
सह पारेमध्ये षष्ठया वेति समासः । नाव्ययीभावादतोऽम्त्वपञ्च-
म्या इति सुपोऽमादेशे मध्येदिवमिति साधु ।
३३. समेधितमेधा इत्येव बहुवचने रूपम् । असिचोऽप्रसङ्गात् ।
३४. आगामिवर्तमाने अहनी युक्ते अस्यामिति बहुव्रीहिः । तेन तत्पुरुष-
स्य राजाहःसखिभ्यष्टच् इति विधीयामनष्टच्समासान्तो नेह
प्रसज्यते ।
३५. वरतनु इत्यत्र यदि नदीसंज्ञकस्तनूशब्द: तदा अम्बार्थनद्योर्ह्रस्वः
इति ह्रस्व: । नद्यृतश्चेति कप् च प्राप्नोति । परत्वात् कप्
स्यात् । ह्रस्वोकारान्ते तनुशब्दे च ह्रस्वस्य गुण इति गुणे 'वर-
तनो' इति स्यात् । संज्ञापूर्वकविधेरनित्यत्वान्न भवतीति यथा-
स्थितं साधु ।१. सर्वे ।