३१२ शब्दापशब्दविवेके
२४. रामेण ह्येकेन चतुर्दश सहस्राणि भीमकर्मणां रक्षसां हतानि
खरदूषणत्रिमूर्धानश्च ।
२५. इयं च साधारणमेधसामपि न न विदितं सारल्यं सत्तमो नय
इति ।
२६. यदि प्रत्यहं पात्रसंमार्गो न स्यात्तर्हि पात्रेषु पूतिगन्धिर्जायेत ।
२७. शोभनगन्धिना प्रातस्तनेन समीरेण यथा सन्तृप्यतीन्द्रियग्रामो
न तथार्थान्तरेण
२८. यावदिदं शरीरं स्वस्थमरुजमपरीतं च जरया तावन्निः श्रेयसि
प्रयतेत सुधीः ।
२४. द्वित्रिभ्यां षमूर्ध्न इति षप्रत्यये टिलोपे खरदूषणत्रिमूर्धा इति
भवितव्यम् । द्वित्रिभ्यां पाद्दनमूर्धसु बहुव्रीहौ (३।२।१९७) इति
स्वरसूत्रे मूर्धसु इति निर्देशात्समासान्तोऽनित्यः । अन्यथा
प्रक्रमाभेदाय मूर्धेष्वित्येव वदेत् ।
२५. नित्यमसिच् प्रजामेधयोरित्यसिच् समासान्तो नञ्दुःसुपूर्वादेव
मेधाशब्दाद् भवति नान्यपूर्वात्, तेन साधारणमेधसामिति
प्रामादिकम् । अस्वरितत्वादेव अन्यतरस्यां ग्रहणाननुवृत्तिसिद्धौ
नित्यग्रहणमन्यतो विधानार्थम् । तेनाल्पमेधस इति सिध्यतीति
वृत्तिकारः । तथा च भारते प्रयोगः 'श्रोत्रियस्येव ते राजन्मन्द-
कस्याल्पमेधसः अनुवाकहता बुद्धिर्नेषा तत्त्वार्थदर्शिनी
(वन० ३५।१९) ॥ सम्प्रति समुपलभ्यमाने महाभारते तु मन्द-
कस्याविपश्चित इति पाठो दृश्यते । साधारणमेधसाम् इत्यस्य
साधुत्वे तु शिष्टानुग्रहो नास्तीति नेदं साधुत्वमवगाहते ।
२६. बहुव्रीहौ समास एव उदादिभ्यो गन्धस्येकारोऽन्तावयवो विधी-
यते न तु तत्पुरुषे । तेन प्रकृते पूतिगन्ध इत्येव । पूतिश्चासौ
गन्धश्चेति विग्रहः ।
२७. गन्धस्येदुत्पूतीत्यादिसूत्रे शोभनशब्दस्यादर्शनात्ततः परस्य गन्ध-
स्येकारोऽन्तावयवो न शक्नोति भवितुम् । तेन शोभनगन्ध इत्येव
प्रयोगार्हम् ।
२८. निश्चितं श्रेयो निःश्रेयसम् । इदं च अचतुरविचतुरेत्यादिना-
च्प्रत्ययान्तं निपातितम् । तेन सप्तम्यां निश्रेयसे इति स्यात् ।