समासान्ताः ३११
१६. अहो अन्यतमः प्रविष्टा: स्मः । नेह हस्तस्पर्शादिनापि किंचित्प्र-
ज्ञायते ।
१७. सुगन्धिरयमापणः क्षणमत्रैव तिष्ठामः ।
१८. अयं पथिप्रज्ञ१ इति पथप्रदर्शको नो भवितुमर्हति ।
१९. पञ्चषड्दिवसान्मयि२ वस्तुमर्हसि । ततः स्वान्गृहान् गमिष्यसि ।
२०. वाङ्मनसोरगोचरो भगवतो महिमा । तथा हि धृतिः-- 'एता-
वानस्य महिमाऽतो ज्यायांश्च पुरुष इति ।
२१. आह्वय सुग्रीव वालिने भ्रातृगन्धिनम् । (श्रीरामायणे)
२२. कल्याणी खलु पूर्वोत्थायिनो जघन्यसंवेशिनो३ऽस्यान्तेवासिनोऽहो-
रात्रिचर्या ।
२३. अन्तर्लोमाऽयं पट: स्पर्शे मृदुः ।
१६ अवसमन्धेभ्यस्तमस इत्यन्धतम समिति तु युक्तम् ।
१७. शोभना गन्धा (द्रव्याणि) अति सुगन्धः (आपणः) । गन्धस्येदु-
त्पूतिसुसुरभिभ्य (२४११३५) इतीत्वं तु गन्धस्यकान्तत्व एव
भवति । एकान्त एकदेश इव अविभागेन लक्ष्यमाण इत्यर्थ इति
दीक्षितः । तेन सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः ।
१८. पथिप्रदर्शक इत्येव साधु । ऋक्पूरब्धूःपथामित्यसमासान्तः
समासस्यान्तावयवो विधीयते । पूर्वपदस्य पथिन्शब्दस्य तु न ।
१९. पञ्च वा षड् वेति पञ्चषाः । तान् पञ्चषान् संख्ययाव्ययासन्ने-
त्यादिना समासः । बहुव्रीहौ संख्येये डजबहुगणात् इति डचि
पञ्चषा इति रूपं निष्पद्यते ।
२०. वाक् च मनश्चेति वाङ्मनसे, तयोः वाङ्मनसयोः । अचतुरविच-
तुरेत्यादिनाऽजन्तत्वनिपातनात् ।
२१. भ्रातृत्वमल्पमत्रेति भ्रातृगन्धि: । अल्पाख्यायामितीकार: समा-
सान्तः स्यादिति पाणिनीयाः ।
२२. अहश्च रात्रिश्चेत्यहोरात्रः । अहःसर्थैकदेशेत्यादिनाच्समासान्तेन
भाव्यम् । रात्राह्नाहाः पुंसीति समाहारद्वन्द्वस्यापि पुंस्त्वम् । अहो-
रात्रचर्येत्येवं वक्तव्यम् ।
२३. अन्तर्वहिर्भ्यां च लोम्न (१।४।११७) इत्यपि समासान्तेऽन्तर्लोम१. पन्थानं प्रजानातीति । २. मदन्तिके। ३. पश्चाच्छायिनः ।