पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३६ शब्दापशब्दविवेके


१३१. सर्षपाणि स्वया पीतिम्ना दिङ्मुखानि पिञ्जरयन्ति । १३२. वसूनि सुखहेतूनि भुञ्जते सर्वमानवाः । १३३. यथा घुणो नाम कीटः क्वचिद् दारौ दैवादक्षराणि विलिखति, एवं निष्कर्मणोपि क्वचित्सम्पद्योगो दृश्यते । १३४. परिव्राजकामुकशुनामेकस्यां प्रमदातनौ । कुणपं१ कामिनी भक्ष्य- मिति तिस्रो विकल्पनाः ।। १३५. युद्धभेर्या इवैषा ध्वनिर्मूर्छति२ श्रवणयोः । १३६. प्रभातकल्पा सम्प्रति शर्वरी । नैकोऽपि तारको दृश्यते गगने । १३७. किं जानास्यायुर्वेदं यन्मेदोमज्जयोर्विशेषं न वेत्थ । १३८. अत्युदारामुपाधिं दधतो महाजना जनवत् प्रवर्तन्ते बत४ । १३९. अहो मनोज्ञमिदं सुमनोगुच्छकम् । १४०. तानि धर्माणि प्रथमान्यासन् (ऋ० १।१६४।५०) १३१. स्वेन पीतिम्नेति वक्तव्यम् । इमनिजन्तं पुंसि नियतम् । १३२. सुखहेतून् इति तत्पुरुषे परवल्लिङ्गतायां साधु । न चायमन्य- पदार्थप्रधानो बहुव्रीहिः । अर्थासङ्गतेः । रचनासौष्ठवाय तु वसूनि सुखहेतुभूतानीत्येवं वक्तव्यमिति प्रयोगचणाः । १३३. काष्ठं दार्वित्यमरः । तेन दारुणीति साधु स्यात् । १३४. कुणपः शवमस्त्रियामित्यमरः । १३५. ध्वनिः पुमान् । तथा चामर:-शब्दे निनादनिनदध्वनिध्वानरव- स्वना इति । १३६. तारका तारकं वेति युज्यते वक्तुम् । १३७. मेदश्च मज्जा चेति मेदोमज्जानौ । तयोर्मेदोमज्ञोरिति न्या- य्यम् । सारो मज्जा नरीत्यमरः । १३८. उपसर्गे घोः किरिति क्यन्त उपाधिशब्दः पुमान् । १३९. स्याद् गुच्छकस्तु स्तबक इत्यमरः । १४०, धर्मशब्दोऽर्धर्चादिषु पठ्यते । अपूर्वे पुल्लिङ्गः, तत्साधने नपुंस- कम् । तत्साधनं यागः । स चेह श्रुतौ विवक्षितः ।१. शवः । २. वर्धते । ३. अल्पं जानासि । बतेति खेदे ।