३०९ समासान्ताधिकारो द्वादशः ।
१ व्यूढोरा१ वृषस्कन्ध उग्रम्पश्यः स राजन्यः कस्य भयं न जन-
यति।
२. सुराजान२ इमे देशा यत्र राजहंसो राज्यं शास्ति ।
३. यः सखायं किंसखायं च विविङ्क्ते स सुखं समश्नुते ।
४. नवप्रसूतगावो धेनव उच्यन्ते ।
५. अनर्थ एष वाक्यव्रातः । अलमस्य प्रतिपत्तौ यत्नेन ।
६. अद्य सुप्रातं यच्विरस्याकाङ्क्षितदर्शनो देवो दृष्टः ।
७. यो दिवारात्रं स्वपिति तस्य का सिद्धिः संभाव्यतेऽधन्यस्य ।
८. नातन्त्रीर्विद्यते वीणा नाचक्रो विद्यते रथः । (श्रीरामायणे)
१. 'उरःप्रभृतिभ्यः कप्' इति नित्ये कपि समासान्ते व्युढोरस्क इत्येव
साधु ।
२. शोभनो राजाऽत्रेति सुराजानः । राजाहः-सखिभ्यष्टच् इति तु
तत्पुरुषसमास एव विधिः ।
३. किमः क्षेपे इति समासान्तनिषेधात् किंसखायमिति साधु ।
कुत्सितः सखा किंसखा।
४. गोरतद्धितलुकि इति टचि नव्यप्रसूतगव्य इत्येव साधु ।
५. अर्थान्नञ इति गणसूत्रेण कपि समासान्तेऽनर्थक इत्येव भवति ।
अनर्थ इति तु तत्पुरुषेऽनवद्यम् ।
६. सुप्रातसुश्वसुदिवेत्यादिना सुप्रातमिति बहुव्रीहौ निपातितम् ।
शोभनं प्रातरस्य । तेन तत्पुरुष दुःसमाधानम् ।
७. दिवारात्रमिनि दुष्टो न्यासः । अहः सर्वैकदेशेत्यादिसूत्रे संख्याव्यया-
देरित्यनुवर्तते, तेनाच्समासान्ते सेत्स्यतीति भ्रमः, तत्पुरुषे तद्-
विधेः । अहनि पूर्वपदे द्वन्द्वेप्यसमासान्ते अहोरात्र इति निर्दुष्टम् ।
८. नाडीतन्त्र्योः स्वाङ्गे इति स्वाङ्गादन्यत्र नद्यृतश्चेति विहितः
कब्दुर्वारः । तेनातन्त्रीका वीणेति पाणिनीयाः ।१. व्यूढं विस्तीर्णमुरो यस्य । २. शोभना राजानो यत्र ।