पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०८ शब्दापशब्दविवेके


१६. संस्कृताधीतिनां१ कृते बहु कर्तव्यमवशिष्यते शासितृवर्गस्य । २०. अज्ञानमेघावृतवेदभानौ चार्वाकादय उद्बभूवुः । २१. कृष्णेनानेन कर्मणा स पितुरपि कलुषवदनं चकार । २२. योऽभिवादितविप्रस्तु नाशिषं सम्प्रयच्छति......... । २३. सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः । (अमरे) २४. आसुरं कुलमनादरणीयं लीलया भवजलं तरणीयम् । २५. यथा भृगोरवपतितो म्रियते तथा प्रासादपतितोऽपि । को विशेषः । १९. संस्कृतेऽधीतिनामित्येव साधु । अधीतमेभिरित्यधीतिनः । तस्ये- विषयस्य कर्मण्युपसंख्यानमिति संस्कृते इत्यत्र सप्तमी। तस्याः समासो दुर्लभ ऋते योगविभागात् । स चागतिकगतिरित्यसकृद- वोचाम । २०. अज्ञानमेघेनावृते वेदभानावित्येवं व्यासेन वक्तव्यम् । वेदभाना- वज्ञानमेघेनावृते सतीत्यर्थः । यथास्थिते तु समासार्थो न परि- स्फुट: । अज्ञानमेघावृतत्वं विधातुमिच्छामः । विधेयं च न सम- स्यते । विशेषणत्वे पुनर्भावलक्षणसप्तमीत्वं न प्रतीतिमेति । २१. वदनं कलुषं चकारेत्येवं विग्रहेण वक्तव्यम् । कलुषमिति विधे- यम् । समानाधिकरणसमासे तु प्रागेव कालुष्यविशिष्टं पितुर्वदन- मिति पुत्त्रेण तत्र किं चक्रे । २२. यो विप्रोऽभिवादितः (सन् ) इत्येवं वक्तव्यम् । उक्तोऽसकृद्धेतुः । २३. दिकसंख्ये संज्ञायामिति नियमेन संज्ञायामेव संख्या समानाधि- करणेन सुबन्तेन समस्यते । तेन सप्तविंशत्या मौक्तिकैरिति व्यासोक्तिः साध्वी । २४. अनादरणीयम् इति प्रतिषेधार्थकेन नञा समासो न युक्तः । नाद- रणीयमित्येवं व्यासेन वक्तव्यम् । २५. अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (२।१।३८ ) इत्यनेन अपे- तादिभिरल्पा पञ्चमी समस्यते न सर्वा । तेन प्रासादात्पतित इत्यत्र समासो नेति काशिका । इति व्यासोक्तिविवेचनम् । १. अधीतमेभिरित्यधीतिनः । इष्टादिभ्यश्चेति इनिः ।