पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यासोक्तिः ३०७


१४. अशक्येयं शिबिका१ शतपुरुषैरपि वोढुम् । १५. वात्सल्यातिशयलालिताङ् गयष्टिकतनय-यमसदनातिथिभवने पिता शुचो वशमगात्, चिरं च प्रामुह्यत् । १६. एवं वचनोपन्यासः परचक्षुर्धूलिनिक्षेप इव भवति । १७. अस्यैकदिनपूर्वं सोऽयं ग्रन्थः पूर्त्तिमगात् । १८ देव ! अशरणोऽहं ते चरणशरणमापन्न: । पाहि माम् । १४. दिक्संख्ये संज्ञायामिति संख्यावचनस्य समानाधिकरणेन सुबन्तेन संज्ञायामेव समासो विधीयते । तेनान्यत्र समासोऽवैधः। तस्मा- च्छतेन पुरुषैरिति वक्तव्यम् । १५. वात्सल्यातिशयलालिताङ्गयष्टिकस्य तनयस्य यमसदनस्यातिथी- भवने इत्येवं वक्तव्यम् । विशेषणं हि परार्थत्वादुपकारकं गौणं भवति । समासे चोत्तरपदेन संसृष्टं सन्नितरां तथेति केवलं वाक्ये पृथक्छ्रूयमाणं किञ्चिदपरतन्त्रं भवतीति तथा प्रयोग एष- णीयः । अतिथीभवन इत्यत्राभूततद्भावे च्विरपेक्ष्यत इति च्वौ सति च्वौ च (७।४।२६) इति दीर्घः। अतिथीभवन इत्यत्र सम्प- द्यते: कर्तरि च्विः । अनतिथेरतिथेर्भवनम् । १६. परचक्षुषो धूलिनिक्षेप इत्येवं वाक्यं निर्मेयम् । सप्तमीसमासस्य दौर्लभ्यात् । सप्तमीति योगविभागात्समास इति तु शिष्टप्रयोग- समर्थनायागतिकस्य गतिः । १७. एकदिनपूर्वमिति सर्वथा दुर्घटोऽयं समासः । एकदिनं पूर्वं यस्मिन् कर्मणि तद्यथा तथेति विग्रहे तु नार्थो विवक्षितः स्फुटति । यत्सत्यं प्रचरद्भाषाच्छायैषा भवति, न तु संस्कृतम् । संस्कृतेऽयमर्थो भङ्ग्यन्तरेणोच्यते । इत एकाहे, अस्मात्पूर्वस्मिन्दिने इति वा भङ्ग्यन्तरम् । १८. अहं ते चरणौ शरणमापन्न इत्येवं व्यासेन वक्तव्यम् । कर्म- धारयसमासे तु शरणचरणाविति स्यात् । विशेषणस्य पूर्व- निपातनात् । मयूरव्यंसकादित्वाद्वा समाधेयम् । चरणावेव शरणमिति चरणशरणम् । तथाऽप्यसमर्थसमासोऽयं भवति । चरणार्थो हि युष्मदर्थेनाभिसम्बद्ध इति सापेक्षः । गत्यन्तरं च नास्तीति चरणौ शरणमित्येव ब्रूयात् । १. शिबिका ग्राम्ययानं स्यात् ।