पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०६ शब्दापशब्दविवेके


८. प्रमीत१ पतिपत्नीको स्त्रीपुंसौ नियोक्तव्याविति केचित् । ९. यदभिमुखं पश्यति गोस्वामी तदीयं भाग्योदयं निश्चितमवैति श्रद्धाजडो जन:। १०. क्वचित्कारणो भवेत्साधुः क्वचित् खल्वाटनिर्धनः । ११. साम्प्रतं लब्धप्रचारमतानि प्रायशो विरोधमुपजनयन्ति जनता- याम् । १२. प्रच्छन्नपापिनो ये स्युः कृतघ्ना दुष्टचारिण: । नरकेषु च पच्यन्ते यावदाभूतसम्प्लवम्२ ॥ १३. एतदेवान्तरं प्राचीननवीनपरिपाट्योः । ८. प्रमीतपतिपत्नीकाविति प्रत्येकं स्त्रीपुंसाभ्यामभिसम्बध्यते । तेनार्थासङ्गतिः स्फुटा । पतिश्च पत्नी चेति पतिपत्न्यौ । प्रमीते पतिपत्न्यौ ययोः तौ प्रमीतपतिपत्नीकौ । स्त्रीपुंसौ । स्त्री । पुमांश्च । नहि स्त्री प्रमीतपतिपत्नीका भवति न वा पुमान् प्रमीत- पतिपत्नीको भवतीत्युभयत्र विशेषणानुपपत्तिः । तेन प्रमीत- पतिका स्त्री प्रमीतपत्नीकश्च पुमान् इत्येवं व्यासेन वक्तव्यम् । ९. यस्याभिमुखमिति पृथक्पदत्वेन वक्तव्यम् । नहि तदीयमित्ये- तद्गतस्तच्छब्दः समासेऽन्तर्गतं यच्छब्दं परामृशेत् । सर्वनाम्नां प्रधानपरामर्शित्वात् । १०. खल्वाटो निर्धन: क्वचिद् इत्येवं वाक्यविन्यासः कार्यः । निर्धनो विधेयम् । ११. लब्धप्रचाराणि मतानीत्येवं पृथक्त्वेन प्रयोज्यम् । १२. यावदाभूतसंप्लवमित्यस्य स्थाने यावद् भूतसम्प्लवमिति आभूत- संप्लवमिति वा वक्तव्यम् । आङाऽव्ययीभावे यावता नार्थः, सति च यावति समासेन नार्थः। यावद्योगे ततोऽन्यत्रापि दृश्यत इति द्वितीयाविधेः । १३. प्राचीनाया नवीनायाश्च परिपाट्या इति विग्रहेणोक्ते प्राचीन- नवीनयोः प्राधान्यं परिस्फुरति । तदेव चाभिप्रेति वक्ता । १. प्रमीतौ मृतौ । मीङ् हिंसायां दिवादिरकर्मकः, ततो निष्ठा । २. भूतसम्प्लवः प्रलयः ।