व्यासोक्तिः ३०५
व्यासोकृत्यधिकार एकादश ।
१. स्वकीयसमाजपत्तनविश्वेषां चाभ्युदयं कामयन्ते सन्तः ।
२. पुराकल्पे मनुष्याणां सहस्रवर्षायुरप्यासीदिति केचित् पौरा-
रिणकाः ।
३. मनोहरनापित आहूयतां वपत्वस्य बालस्य शिरोरुहानिति ।
४. स्वार्थं रिरक्षिषन्न परार्थं हन्यादिति सर्वलोकसम्मतो न्यायः ।
५. आचार्यो हि च्छात्रस्य सुप्तभावनां प्रबुद्धां चिकीर्षति ।
६. ग्रामवसतिर्दीनैकतां प्राप्तः सत्याग्रहव्रतो जनः सततमुन्नयेदा-
त्मानम् ।
७. पाद्यार्घ्याचमनीयं त्रिविधं जलं निवेदयेद् गृहागताय ।
१. स्वस्य समाजस्य च पत्तनस्य च विश्वस्य चाप्यभ्युदयं कामयन्ते
सन्त इत्येवं न्यसनीयम् । सर्वादिगणे पाठाद् विश्वशब्दस्य सर्व-
नाम-संज्ञा । विश्वशब्दः सर्वपर्यायवचनः साक्षाज्जगद्वचनो न,
तात्पर्यतस्तु जगति वर्तते । द्वन्द्वे च सर्वनामसंज्ञानिषेधाद् विश्वे-
षामिति प्रामादिकम् ।
२. आयुः सहस्रं वर्षाण्यासीदित्येवं व्यासेन वक्तव्यम् । संज्ञायामेव
संख्या समानाधिकरणेन समस्यत इति नियमात् ।
३. मनोहरो नाम नापित इत्येवं व्यासोक्तिरेव साध्वी । विशेषणं
विशेष्येण बहुलमित्यत्र बहुलग्रहणादत्र समानाधिकरणसमासो
न । अर्जुन: कार्तवीर्यः शिंशपा वृक्ष इतिवत् ।
४. सम्मतशब्द इष्टापरपर्यायः । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने
ऽत्र क्तः । क्तेन च पूजापामिति षष्ठीसमासनिषेधात् सर्वलोकस्य
सम्मत इति वाच्यम् ।
५. समासे सुप्तार्थो गुणीभूत इत्युद्भूततायै व्यासेन वक्तव्यम् । सुप्तां
भावनामिति ।
६. दीनः स हैकतामिति पृथक् पदत्वमाश्रयणीयम् । अविहितश्चायं
सहार्थे तृतीयया समासः शास्त्रेणेति नादरणीयः ।
७. प्रत्येकं प्राधान्यख्यापनाय पाद्यम् अर्घ्यमाचमनीयमिति पृथक्त्व-
माश्रयणीयम् । तथैव त्रैविध्यं जलस्याभिव्यक्तं भवति । विशे-
षणसमासे त्वेकस्य विशेषणत्वेऽपरस्य विशेष्यत्वं स्यात्, त्रैविध्यं
च विहतं स्यात्।