पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०४

३. अद्यासन्नानि सहस्रपञ्चतयस्य वर्षाणि महाभारतस्य प्रणीतस्य । ४. शिरसा तुरुष्कत्राणं न धारयित्वा को नामार्हो राजजीविकाम- वाप्तुम् । ५. हन्त धिगिममतट मे प्रपातम्१ । ६. नृणां पुङ्गवा इमे कस्य न नमस्या: ? ७. भिन्नभिन्नविषयाणां ग्रन्थाः साभियोगमध्येया: प्रज्ञानानि चोप- चेयानि । ८. साधु पयस: पानं देवदत्तस्य ।

३. आसन्नपञ्चसहस्राणीति न्यास एव शोभनः । समासोक्तिवरम् । ४. नञ्समासेनाऽधारयित्वेति तु युज्यते । अन्यथाऽस्तिनाऽध्याहृतया क्रियया योगः स्यात् । अनिष्टार्थश्च प्रसज्येत । ५. अतटो भृगुर्भवति । प्रपातोऽपि । प्रकृते तु प्रपतनं प्रपात इति क्रियाशब्दः । तेन अतटात् प्रपातमिति साधु स्यात् । अथवाऽवि- द्यमानतटमिति शुद्धयौगिकत्वमङ्गीकृत्य प्रपातविशेषणमभ्युपेयम् । ६. स्युरुत्तरपदे व्याघ्र पुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ।। इत्यमरादुत्तरपद एवामी श्रेष्ठार्थस्य वाचकाः । तेन नृपुंगवा इति वक्तव्यम् । श्रीरामायणे त्वनेकत्र स्वातन्त्र्येण प्रयोगः । तद्यथा प्लवंगमानामृषभेण युद्धे (६।५९।०१) इत्यादि । ७. भिन्ना विषया येषां ते भिन्नविषया ग्रन्थाः । बहुव्रीहिरेवात्रेष्टार्थ- स्य समर्पको न तु कर्मधारयः । (वीप्साया वृत्तावन्तर्भावाद् द्विरु- क्तिर्न)। ८. कर्मणि येन शरीरसंस्पर्शादिति नित्यसमासो न । इदं तु शरीर- सुखस्याविवक्षायां रोगाद्यभिभूतो यदाऽशक्नुवन्नेव साधु पिबति तदा द्रष्टव्यम् । इति समासोक्तिविवेचनम् ।१. प्रपतनम् ।