समासोक्तिः ३०३
४९. महापादपप्रच्छाये नान्यः पादपः प्ररोहति ।
५०. एक एको लगुडप्रहारो लघुरपि मनस्विनं तं भृशमतुदत् ।
५१. कददाः स्म मा नः (भा० पु० ५।५।२८) ।
५२. कथं 'विनासा हतबान्धवा' (भट्टि० ) ।
४६. प्रकृष्टा छाया प्रच्छाया । प्रादिस्तत्पुरुषः । महापादपप्रच्छायाया-
मिति वक्तव्यम् । अत्र च्छायाशब्दस्याभावाद् वैकल्पिकं नपुंसक-
त्वमपि न संभवति ।
५०. एकशब्दस्य द्विरुक्तौ एकं बहुव्रीहिवद् इति बहुव्रीहिवद्भावात्सुब्-
लुकि एकैक इति स्यात् ।
५१. कद् अदाः इत्यत्र को: कद्भावः केनापि शास्त्रेण नानुशिष्टः ।
कदिति स्वतन्त्रा प्रकृतिर्भागवतकारेणोत्प्रेक्षिता स्यात् । सर्वतन्त्र-
स्वतन्त्रोऽयं कविः ।
५२. वेर्ग्रो वक्तव्य इति वार्तिकेन विग्रेति युज्यते । स्थितस्य गतिश्चि-
न्तनीयेति चेत् । विगता नासिका विनासिका । प्रादि: । पश्चाट्
टायां पद्दन्नोमास् --- इति सूत्रेण नसादेशे विनसेति तृतीयान्तं
साधु । इत्थम्भूतलक्षणे तृतीया विज्ञेया ।
इति समासाश्रयविधिविवेचनम् ।
समासोक्त्यधिकारो दशमः । १. सत्याग्रहो नाम परकृतकदर्थनाया:१ सहर्षं सहनम् नान्यपीडनं च भवतीति तज्ज्ञा: । २. शास्त्राणि नाभ्यस्यतः स्नातकस्य महापातकं जायत इति मन्वा- दयः । १. नान्यपीडनमित्यत्र नञ्शब्द: प्रसज्यप्रतिषेधे नेष्यते, वाक्यभेद- प्रसङ्गात् । तेन पर्युदासेऽर्थे वर्तमानस्य तस्य समासेऽनन्यपीडन- मिति भवितव्यम् । २. शास्त्राण्यनभ्यस्यत इत्येव निर्दुष्टो न्यासः । यथास्थितम् असमासे तु नञो 'जायत' इति क्रियया योगः स्याद् विवक्षितं च विपरी- यात् । १. कदर्थना उपपीडनम् ।