पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०२ शब्दापशब्दविवेके


४३. जागरेण यापिताशेषरात्रस्य मे क्लान्तानि गात्राणि । घूर्णते नेत्रे । अपह्रियेऽहं निद्रया । ४४. इतरामितरां भोजयत इमे ब्राह्मण्यौ । ४५. श्रियमात्मानं ब्राह्मणकुलं मन्यत इति श्रिमन्यमिति भाष्ये स्थितम् । तत्र साधुत्वं चिन्तय । ४६. यत्र सपक्षविपक्षसद्भावेनोभयव्याप्तिभ्यां साध्यं साध्यते तदन्व- यव्यतिरेकि अनुमानम्) । ४७. शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तो भवेद्वधः (मनु०८.१०४)। ४८. सौम्य ! त्वर्यताम् । इध्माबर्हिरानीयताम् । ४३. यापिताशेषरात्रेर्मे इति वक्तव्यम् । अत्राच्समासान्तस्य दौर्ल- भ्याद् यापिताशेषरात्रस्येत्येतत् स्खलनमेवेति वृद्धाः । ४४. कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यमिति द्विरुक्तिः । समासवच्च बहुलम् इति समासवद्भावः । इतरशब्दस्य तु नित्यः समासवद्भावः । स्त्रीनपुंसकयोरुत्तरपदस्य चाम्भावो वक्तव्य इति वार्तिकपक्षे आम् । तेनामि सति इतरेतराम् इति स्यात् । तदभावे इतरेतरम् इति । सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति पूर्वोत्तरपदयोयोरपि पुंवद्भावः । कर्मधारयवदुत्तरेषु (८।१।११) इति वार्तिकेषु न सम्बध्यते । ४५. इच एकाचोऽम्प्रत्ययवच्चेत्यनेन खिदन्त उत्तरपदेऽमागमेऽमि इव कार्ये इयङि च सति श्रियं मन्यमिति स्यात् । अत्रेदं भाष्य- कारस्य दर्शनं भाति-अत्रविषये परित्यक्तस्वलिङ्गः क्लीबः श्रीशब्दो ब्राह्मणकुले वर्तते यथा पृष्ठादयः शब्दाः पुंयोगात् स्त्रियां वर्तन्ते पृष्ठी गणिकेति, तत्र ह्रस्वो नपुंसके इति ह्रस्वः । मुम् तु न भवति, अपवादेन अमा बाधात् । अम् प्रत्ययस्य स्वमोर्न- पुंसकादिति लुक् । लुकि सति तत्संनियोगशिष्टोऽमागमोपि नेति । ४६. उभयव्याप्त्येति वक्तव्यम् । द्वित्वं तुभयशब्देनैवोक्तमिति न तद- भिधायिका विभक्तिरपेक्ष्यते । समासे उभादुदात्तो नित्यमयच् । ४७. वधस्यामङ्गलत्वादभ्यर्हितस्य ब्राह्मणादे: पूर्वनिपातो नेति कुल्लूकभट्टः । ४८. न दधिपय आदीनि इत्यनेनैकवद्भावस्य निषेधाद् इध्माबर्हिषी इत्येव साधु । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः ।